कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

नहुष

nahuṣaपुं · masc.

In 12 kośas: 10 synonym verses, 3 as a nānārtha head word.

बालप्रबोधिका Bālaprabodhikā · नत्कीर षोडशोपदेशः Bālaprabodhikā 16.327 · p. 96
मनुष्या मानवा मर्त्याः पुरुषाः पूरुषा नराः ।प्रातः पञ्चजनो गोधा द्विपादो नहुषो नरः ॥ ३२७ ॥
अनुष्टुप्
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम मनुष्याधिकारः पञ्चमस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 5.1 · p. 27
मनुष्या मनुजा मर्त्या द्विपादो नहुषो नरः ।ब्रह्मक्षत्रियविट्छूद्रा इति वर्णचतुष्टये ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.282 · p. 280
अस्त्रियां तगरो वक्रो विनम्रः कुञ्चितो नतः ।स्याच्छदो नहुषो दण्डहर्षो हर्षण इत्यपि ॥ २८२ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.2 · p. 168
कालानुसार्यं तगरं कुटिलं नहुषं नतम् ।महोदरश्चण्डहस्तो पिण्डीतगर एव च ।सुषिरा विद्रुमलता कपोताङ्घ्रिर्नटी नली ।निर्मध्या नर्त्तकी शून्या धमन्यञ्ज[47a]नकेशिका ॥ २ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र वृक्षकाण्डः Nighaṇṭuśeṣa 1.162 · p. 89
काष्ठीलाल वारणबुसा स्यात्कोलीरस इत्यपि ।तगरे कालानुसार्यं वक्राख्यो नहुषो नृपः ॥ १६२ ॥
metre not recognisednearly अनुष्टुप्
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.104 · p. 21
द्विपादो नहुषो गोधा व्राताः पञ्चजना नरः ।ब्रह्मक्षत्रियविट्शूद्रा इति वर्णचतुष्टये ॥ १०४ ॥
अनुष्टुप्
genderपुंmasc.
संसारावर्त Saṃsārāvarta · विक्रमादित्य Saṃsārāvarta 12 · p. 467
नहुषः खररोमा च शेषवासुकितक्षकाः ॥ १२ ॥
genderपुंmasc.
शब्दचन्द्रिका Śabdacandrikā · वामनभट्टबाण ब्राह्मणप्रकरणम् Śabdacandrikā 5.1.1 · p. 41
मनुष्या मानुजा मान्या मानुषा मानवाः स्मृताः ।द्विपादो नहुषो गोधाः प्रातः पञ्चजना नरः ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पातालाध्यायः Śabdaratnākara 1.10.301 · p. 41
वैशालेयमहान्तकपद्ममहापद्मनहुषधृतराष्ट्राः ।कुञ्जरकुमुदैरावतकुण्डोदरपुण्डरीकबहुकुण्डाः ॥ ३०१ ॥
गीतिः
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश मनुष्याध्यायः Vaijayantī 3.5.1 · p. 72
मनुष्या मानुषा मर्त्या मनुजा मानवा नरः ।द्विपादो नहुषा गोधा व्राताः पञ्चजना नराः ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शान्ताः Koṣakalpataru 6.30.46 · p. 374
स्याद्धेमले ना निकषः स्त्रियां तुरक्षोजनन्यां नहुषोऽहिराज्ञोः ।पापेऽन्तिमे स्यात्कलुषं परस्मिं-स्तदाविले कल्मषरोगयोस्तु ।तथापराधेऽपि च किल्बिषं स्या-त्स्पन्दे दृशोः स्यान्निमिषो निमेषः ॥ ४६ ॥
इन्द्रवज्राtwo metres in one verse
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1005 · p. 135
नहुषस्तु पुमान् पूर्वराजभेदे द्वयोः पुनः ।मनुष्ये न्यंशुकस्तु स्याच्चन्द्रे वेणौ पुमांस्तथा ॥ १००५ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश षान्ताः Śabdaratnāvalī 7.31.21 · p. 293
नहुषो नागभेदे स्यात्सूर्यवंशनृपान्तरे ।निकषः शानफलके स्त्रियां राक्षसमातरि ॥निमेषनिमिषौ कालप्रभेदेऽक्षिनिमीलने ।परुषं कर्बुरे रूक्षे तथा निष्ठुरभाषणे ॥प्रदोषः पुंसि दोषे स्यात्तथा च समयान्तरे ।प्रत्यूषः स्याद्दिनमुखे चण्डांशुवसुभेदयोः ॥
अनुष्टुप्