कुटिल
kuṭilaवि · adj.In 16 kośas: 16 synonym verses, 4 as a nānārtha head word, 28 as a meaning of another word.
कुञ्चितं नतमाविद्धं कुटिले वक्रवेल्लिते ॥ १४५६ ॥वृजिनं भङ्गुरं भुग्नमरालं जिह्ममूर्मिमत् ।
अनुष्टुप्
genderविadj.
अरालं वृजिनं जिह्ममूर्मिमत्कुञ्चितं नतम् ।आविद्धं कुटिलं भुग्नं वेल्लितं वक्रमित्यपि ॥ ७१ ॥
अनुष्टुप्
genderविadj.
वक्रं वृजिनं भङ्गुरमाविद्धं वेल्लितं नतं जिह्मम् ।भुग्नमरालं कुटिलं व्याकुञ्चितमूर्मिमत्कथितम् ॥ ६९६ ॥
आर्या
genderविadj.
स्यादावनतमाविद्धं नम्रं बन्धूरबन्धुरे ।वक्रं वेकं च कुटिलं भुग्नं वेल्लितमित्यपि ॥ १२९ ॥
अनुष्टुप्
genderविadj.
कालानुसार्यं तगरं कुटिलं नहुषं नतम् ।महोदरश्चण्डहस्तो पिण्डीतगर एव च ।सुषिरा विद्रुमलता कपोताङ्घ्रिर्नटी नली ।निर्मध्या नर्त्तकी शून्या धमन्यञ्ज[47a]नकेशिका ॥ २ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
वक्रं तु कुटिलं भुग्नं कुटिलं कुञ्चितं नतम् ।आविद्धाराल-जिह्मोर्मिमद्-वङ्क-वृजिनानि च ॥ ८९ ॥
अनुष्टुप्
genderविadj.
अवक्रसरलौ तुल्यावृजुः प्रगुणसंगतः ।कुटिलं वेल्लितं वक्रं भङ्गुरवृजिने समे ॥ ३४४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 ङ्गु (wrong syllable)
genderविadj.
कन्दर्पोऽनन्यजः कान्तः कौमारो दर्पको वशी ।प्रद्युम्नो विषमेषुश्च कुटिलः सर्वतापनः ॥ ४४ ॥
अनुष्टुप्
genderपुंmasc.
बहुवृद्ध्या तु जीवेत तस्मिन्वार्धुषिकः स्मृतः ।कुसीदकश्च कुटिलो वृद्ध्याजीवो बहूकृतः ॥ ४१३ ॥
अनुष्टुप्
genderपुंmasc.
परिद्वेषयुते सारी कुहनः परघातकः ।ईर्ष्यालुः कुटिलोऽभीरुः सगोष्ठः साहसी वटः(रूः?) ॥ ६७५ ॥
अनुष्टुप्
genderविadj.
अवाग्रं चाप्यवनतमरालं मण्डलीकृतम् ।भग्नं च वेल्लितं भुग्नमाविद्धं कुटिलं तथा ॥ ६९५ ॥
अनुष्टुप्
genderविadj.
विचालं त्वन्तरं मध्यमन्तरालं च मध्यमम् ।अरालं कुटिलं वक्रं सरलं प्रगुणो ऋजु ॥ ९३ ॥
अनुष्टुप्
genderविadj.
आविद्धं वेल्लितं वक्रं कुञ्चितं कुरिलं नतम् ।अरालं भगुरं भुग्नं वृजिनं जिह्नमूर्मिमत् ॥ २ ॥ २६४८ ॥
अनुष्टुप्
genderविadj.doubtful
दोषैकदृक् पुरोभागी दोषमात्रप्रदर्शके ।वक्राशये तु निकृतः कुटिलश्चालनृजुः शठः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 कुटि (syllable split)
genderविadj.
न्यङ्नीचौ प्रह्वविनताववाग्रावनतौ समौ ।कुटिलमरालं वक्रं वेल्लितमाविद्धवृजिनभुग्नानि ॥ १६३६ ॥
अनुष्टुप्metre not read in every line
genderविadj.
अरालं कुटिलं भुग्नमवक्रे प्रगुणोऽप्यृजुः ।सत्वरं त्वरितं तूर्णमरं क्षिप्रं लघु द्रुतम् ॥ १२४ ॥
अनुष्टुप्
genderविadj.
अथ स्यात् कुटली गात्रकृत्यृषौ पुंसि नप् पुनः ।विद्यादाभरणेऽथ त्रिः कुटिलं कुञ्चिते भवेत् ॥ ५३३ ॥
अनुष्टुप्
meaningsकुञ्चित
तगरे तु क्ली तगरपादिकायां स्त्रियामिति ।रभसेनोदिताथास्त्री कुड्मलो मुकुलेऽथ नप् ॥ ५३४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 क्ली (wrong syllable)
doubtful
कोविदारे च कुटिला देव्यां जिह्मे तु न द्वयोः ।ग्रन्थिलो क्षुरके बिल्वे करीरे च विकङ्कते ॥ ४५५ ॥
अनुष्टुप्
meaningsजिह्म
कुटिल as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् जिह्मस्तोमः स्तोत्रेऽध्वरे वृन्दे जिह्मस्तु कुटिलेऽलसे ॥ १४१ ॥ Amarakośa 3.3.141
- धरणिकोश वेल्लितवेल्लितं कुटिले प्रोक्तं वेल्लतं कलितं प्लुतम् । अक्षतं चापि लाजेषु चाक्षतं स्यादखण्डितम् ॥ Dharaṇikośa 15.2.29
- धरणिकोश आविद्धआविद्धौ कुटिलक्षिप्तौ संबाधौ योनिसंकटौ । संबोधश्च क्षये बोधे प्रणिधिः प्रार्थ[51] ने चरे ॥ Dharaṇikośa 18.1.6
- धरणिकोश जिह्मशमी सक्तुफला शिम्बा चोमा दुर्गातसी स्मृता । सूक्ष्मोऽणुः सूक्ष्ममध्यात्मं जिह्मः कुटिलमन्दयोः ॥ Dharaṇikośa 24.1.1
- धरणिकोश चर्चरअङ्कुरः स्यात्पटीकाल ? अङ्कुरोऽभिनवोद्भिदि । चर्चरः कुटिले प्रोक्तो गीतिभदे च चर्चरी ॥ Dharaṇikośa 26.2.44
- धरणिकोश अरालरसाल इक्षौ वृक्षे च रसालीं पालकीं ? विदुः । अरालः कुटिले प्रोक्तो रसः सर्जस्य च स्मृतः ॥ Dharaṇikośa 27.2.35
- कोषकल्पतरु वेल्लितअर्थे ज्ञाते विदितं भावितमुक्तं च वासिते प्राप्ते । कुटिले वेल्लितमन्त्ये परलिङ्गं तु प्लुते विधुते ॥ ८८ ॥ Koṣakalpataru 6.16.88
- कोषकल्पतरु आविद्धकुटिलपराहतयोराविद्धो[सौ]वाच्यवद्गदितः । केतुग्रहे च जठरे रक्षोभेदे कबन्धो ना ॥ ७२ ॥ Koṣakalpataru 6.20.72
- कोषकल्पतरु वक्रक्रूरेऽन्यवत्स्यात्कुटिलेऽप्यथाग्र- मालम्बने स्यान्निकरेऽधिके च । प्रान्ते पुरस्तादुपरि प्रधाने- ऽप्याद्ये तथा[48a]र्द्धे च पलप्रमाणे ॥ ४३ ॥ Koṣakalpataru 6.27.43
- कोषकल्पतरु अरालस्या[72b]द्वल्लकीदण्डकविद्रुमेऽपि रसाल उक्तः सहकार इक्षौ । स्त्री गोस्तनीनाम्नि च मार्जितायां जिह्वासु दूर्वासु विदारिकासु । स्यात्सिल्हकेऽन्त्येऽप्यथ सर्जवृक्षे मत्तद्विपे ना कुटिलेऽप्यरालः ॥ ४३ ॥ Koṣakalpataru 6.28.43
- नानार्थार्णवसंक्षेप जिह्मत्रिषु जालवति द्वे तु दाशे स्यात् स्त्री तु जालिनी । पिप्पल्यां चित्रशालायां जिह्मं तु कुटिले त्रिषु ॥ ४७८ ॥ Nānārthārṇavasaṃkṣepa 2.5.478
- नानार्थार्णवसंक्षेप वक्रकुटिले वक्त्रशब्दस्तु क्लीबे पुंस्यपि चापरे । अनुष्टुप्छन्दसो वृत्तविशेषेषु तथा मुखे ॥ ११९२ ॥ Nānārthārṇavasaṃkṣepa 2.5.1192
- नानार्थार्णवसंक्षेप वक्रिअह्नि च त्रिस्तु कुटिले शल्यके तु द्वयोरयम् । वह्निस्त्वग्नौ पुमानक्ष्णि द्वे त्वश्वे वहिवाक् तु ना ॥ ११९८ ॥ Nānārthārṇavasaṃkṣepa 2.5.1198
- नानार्थार्णवसंक्षेप आविद्धस्नाते चापि समावृत्तेऽथात्मीयोः निजमित्रयोः । आविद्धं कुटिले क्षिप्ते रभसस्तु पराहते ॥ ६ ॥ Nānārthārṇavasaṃkṣepa 3.4.6
- नानार्थार्णवसंक्षेप अलककुटिले पुंसि शण्डस्तु स्यादश्वीयं कदम्बके । अश्वानां त्रिस्त्वश्वहिते स्त्री त्वश्वीयाश्वलाञ्छने ॥ १२७ ॥ Nānārthārṇavasaṃkṣepa 4.127
- नानार्थार्णवसंक्षेप वृजिनस्याल्लातरि वृषार्थस्य वृजिनं तु बले नपि । पापे च ना तु केशे स्यात् कुटिले त्वभिधेयवत् ॥ १७३९ ॥ Nānārthārṇavasaṃkṣepa 4.1739
- नानार्थार्णवसंक्षेप जुहुराणअश्वे द्वे कुटिले तु त्रिरथ जैवातृकः पुमान् । चन्द्रे च परिखायां च परिघेऽथ द्वयोः शुके ॥ २४६ ॥ Nānārthārṇavasaṃkṣepa 6.246
- शब्दरत्नावली गोमुखगोमुखं वाद्यभाण्डे च लेपने कुटिले गृहे । पुमान् महेश्वरगणान्तरि(?) मातलिपुत्रयोः ॥ Śabdaratnāvalī 7.2.9
- शब्दरत्नावली क्ष्वेडरक्तार्कपर्णप्रसवे घोषपुष्पे नपुंसकम् । दुरासदे च कुटिले वाच्यलिङ्गं निगद्यते ॥ Śabdaratnāvalī 7.13.7
- शब्दरत्नावली विधूतवेल्लितञ्च गतौ क्लीबं विधूत कुटिले त्रिषु । शकुन्तो विहगे भासपक्षिकीटभिदोः पुमान् ॥ Śabdaratnāvalī 7.16.141
- शब्दरत्नावली आविद्धअगाधमतलस्पर्शो त्रिषु छिद्रे तु न द्वयोः । आविद्धः कुटिले मूर्खे वाच्यलिङ्गः पराहते ॥ Śabdaratnāvalī 7.19.23
- शब्दरत्नावली वृजिनविपन्नो भुजगे पुंसि विपदाक्रान्तके त्रिषु । विच्छिन्नन्तु समालब्धे विभक्तेऽपि च वाच्यवत् ॥ विलग्नं लग्नमात्रे स्यात्त्रिषु मध्ये तु न स्त्रियाम् । विषघ्नी त्रिवृतायां स्त्री गुडुच्यां ना शिरीषके ॥ व्युत्थानं नृत्यभेदे स्याद्विरोधाचरणेऽपि च । वृजिनं किल्विषे क्लीबं कचे ना कुटिले त्रिषु ॥ Śabdaratnāvalī 7.20.79
- शब्दरत्नावली जिह्मचमूः सेनामात्रकेतु सेनाभेदेऽपि च स्त्रियाम् । जाल्मः क्रूरे पामरेऽसमीक्ष्यकारिण्यपि त्रिषु ॥ जिह्मः स्यात्कुटिले मन्दे क्लीबं तगरभूरुहे । तोक्मं कर्णमले ना तु हरिते च हरिद्यवे ॥ Śabdaratnāvalī 7.25.10
- शब्दरत्नावली वक्रदेशभेदे पुमानेव पिङ्गलेऽपि च वाच्यवत् । वक्रः शनौ पुटे क्लीबं कुटिलक्रूरयोस्त्रिषु ॥ वारी मतङ्गवन्धन्यां कलस्यामपि च स्त्रियाम् । वारिर्वाणीभ-वन्धन्योः स्त्रियां क्लीबेऽम्बुवालयौः ॥ Śabdaratnāvalī 7.27.36
- शब्दरत्नावली अरालअरालो हस्तभेदे स्यात्कुटिले मत्तहस्तिनि । पुंसि सर्जरसे स्त्री तु कुलटाधृष्टयोरपि ॥ Śabdaratnāvalī 7.28.41
- त्रिकाण्डशेष जिह्मगुल्मः स्तम्बे घट्टभेदे घर्मः स्वेदातपोष्मसु । जिह्मः स्थात्कुटिले मन्दे तलिमं तल्पकुट्टिमें ॥ २९६ ॥ Trikāṇḍaśeṣa 3.3.296
- वैजयन्ती नतधृष्णुर्धृष्टे प्रगल्भे च कुटिले बंधुरे नतम् । न्यक्षं कृत्स्ने निकृष्टे च निजमात्मीयनित्ययोः ॥ ९ ॥ Vaijayantī 6.4.9
- वैजयन्ती आविद्धआविद्धौ क्षिप्तकुटिलावादृतौ सादरार्चितौ । विपन्नप्राप्तावापन्नावाभीलौ कष्टभीषणौ ॥ २ ॥ Vaijayantī 7.4.2