कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

छद

chadaपुं · masc.

In 19 kośas: 33 synonym verses, 9 as a nānārtha head word, 12 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य वनस्पतिकायः Abhidhānacintāmaṇi 4.5.19 · p. 44
पत्त्रं पलाशं छदनं बर्हं पर्णं छदं दलम् ।
अनुष्टुप्
genderक्लीneut.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.138 · p. 50
विहगो विहंगमखगौ पतगो विहंगः शकुनिः शकुन्तिशकुनौ विवयः शकुन्ताः ।नभसंगमो विकिरपत्त्ररथौ विहायो द्विजपक्षिविष्किरपतत्रिपतत्पतङ्गाः ॥ १३१६ ॥पित्सन्नीडाण्डजोगौकाश्चञ्चुश्चञ्चू सृपाटिका ।त्रोटिश्च पत्त्रं पतत्रं पिच्छं वाजस्तनूरुहम् ॥ १३१७ ॥पक्षो गरुच्छदश्चापि पक्षमूलं तु पक्षतिः ।
metre not recognised
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.25
पत्रं पलाशं छदनं दलं पर्णं छदः पुमान् ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह सिंहादिवर्गः Amarakośa 2.5.50
गरुत्पक्षच्छदाः पत्रं पतत्रं च तनूरुहम् ।
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.185 · p. 23
पल्लवः स्यात्किसलयं वल्लरी मञ्जरी तथा ।वर्हं पर्णं दलं पत्त्रं पलाशं छदनं छदः ।अङ्कूरश्चाङ्कुरः प्रोक्तो वृन्तं प्रसवबन्धनम् ॥ १८५ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.239 · p. 29
तनूरुहं गरुत्पत्त्रं पतत्रं छदनं छदः ।पिच्छं वाजस्तथा पक्षः पक्षमूलं तु पक्षतिः ॥ २३९ ॥
अनुष्टुप्
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर द्वादशोपदेशः Bālaprabodhikā 12.203 · p. 84
छदस्तु छदनं पत्रं पलाशं छदनादलम् ।पर्णं बर्हं च पत्रं च कोशिका मुकुलोऽपि च ॥ २०३ ॥
अनुष्टुप्
genderपुंmasc.
गुच्छो गुत्सो गुलुच्छश्च छादनं छदनं छदः ।मकरन्दो मरन्दश्च कुसुमं कुसमुच्यते ॥ ९७ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.26 · p. 251
समिन्धनेन्धने च द्वे निःकुहः कोटरोऽस्त्रियाम् ।पत्रं पलाशं पात्रं स्याद्दलं पर्णं छदः पुमान् ॥ २६ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.282 · p. 280
अस्त्रियां तगरो वक्रो विनम्रः कुञ्चितो नतः ।स्याच्छदो नहुषो दण्डहर्षो हर्षण इत्यपि ॥ २८२ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कल्पद्रुकोशः Kalpadrukośa · केशव सरभादिप्रकाण्डः Kalpadrukośa 1.12.198 · p. 339
स्त्रियां चञ्चुश्च चञ्चूश्च त्रोटिस्त्रोटी सृपाटिका ।स्त्री पक्षतिः पक्षती द्वे पक्षमूले छदोऽस्त्रियाम् ॥ १९८ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.32 · p. 136
मिथुने वल्लरिर्मञ्जा चमरा[21a]मञ्जरा न ना ।पत्रबर्हिश्छदा न स्त्री पर्णं पत्रं दलं तथा ॥ ३२ ॥
अनुष्टुप्metre not read in every line
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.48 · p. 139
प्लक्षः कपीतनः शुङ्गी जटी द्वंद्वे तु पर्क्कटी ।य[22b]क्षवृक्षः सुपार्श्वश्च पिप्परिः पिप्पलश्छदः ॥ ४८ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.65 · p. 195
पतेरो विष्किरोऽण्डोत्थो वलूकाङ्गः कठाकवः ।वयोऽन्तिमेऽथ तुण्डं स्यात्सृपाटी त्रोटिरित्यपि ।चञ्चू-चञ्च्वौ गरुत्त्वस्त्री पुंसौ पक्ष-च्छदावुभौ ॥ ६५ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंनपुंसकलिङ्गाधिकारः Koṣakalpataru 4.5.49 · p. 113
ककुदं कुकुदं च दोहदंकुमुदाष्टापदकुन्दमर्बुदम् ।छदकन्दगुदान्यलिन्दव-त्प्रवदन्त्यब्दमिहापि हायने ॥ ४९ ॥
वियोगिनी
genderपुंक्लीm. n.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.34 · p. 56
काष्ठं तु दलिकं दारु मञ्जरिर्वल्लरिः समे ।पर्णं बर्हं पलाशं च दलं पत्रं छदं पुनः ॥ ३४ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.220 · p. 79
गरुच्छदस्तस्य मूले पक्षतिः स्मर्यते स्त्रियाम् ।प्रडीनोड्डीनसंडीनडयनानि नभोगतौ ॥ २२० ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंनपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.5.142 · p. 229
genderपुंक्लीm. n.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त वृक्षलतौषधिमरीचिः Pañcatattvaprakāśa 1.4.152 · p. 11
पलाशः पल्लवः पर्णं दलं पत्रं छदोऽङ्घ्रिकम् ।कलिका कोरकः कुड्मी प्रफुल्लो विकचः स्फुटः ॥ १५२ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति व्योमवर्गः Śāradīyākhyanāmamālā 1.2.100 · p. 11
पक्षश्छदो गरुत्पत्रं पतत्रं च तनूरुहम् ।वाजोऽस्य पक्षतिर्मूलं चञ्चुस्त्रोटिः सृपाटिका ॥ १०० ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.136 · p. 15
मकरन्दः पुष्परसः परागं पुष्पजं रजः ।पत्रं पर्णं दलं बर्हं पलाशं छदनं छदः ॥ १३६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पु (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.1972 · p. 325
पत्रं पर्णं पलाशं च छदनं चापि छदं दलम् ॥ १९७२ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2383 · p. 384
पक्षो गरुच्छदः पिञ्छमिति नामान्यपि क्वचित् ।पक्षिचञ्चोर्हि मन्यन्ते पक्षमूलं तु पक्षतिः ॥ २३८३ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.484 · p. 34
अस्त्रियां कपटो व्याज उपधिर्दम्भ एव च ।कूटकल्कं च्छद-छद्म-मिष-कैरव-कैतवम् ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.25 · p. 58
पत्रं पात्रं दलं पर्णं पलाशञ्च च्छदः पुमान् ।च्छादनं च्छदनं बर्हं बर्हणञ्चापि पत्रकम् ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.96 · p. 89
चकोरकश्चकोरः स्यादित्याद्या लोकशास्त्रतः ।पक्षपत्रपतत्राणि पक्षो वाज-गरुच्छदाः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.131 · p. 228
पत्रं पात्रं पतत्रं च छादनं छदनं छदः ।सन्तं छदोऽस्त्री चादन्तः नवेऽस्मिन् किसलं स्मृतम् ॥ १३१ ॥
अनुष्टुप्
genderपुंक्लीm. n.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.452 · p. 60
पुंसि च्छदश्छदनपत्रपलाशपर्ण-बर्हं दलं रजसि पुष्पभवे परागः ।निर्यासलग्नखपुरास्तु समाः प्रसून-बन्धस्तु वृन्तमथ सस्यफले समाने ॥ ४५२ ॥
वसन्ततिलका
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण शकुन्ताध्यायः Śabdaratnākara 2.5.824 · p. 104
पक्षच्छदो गरुत्पत्रं पतत्रं पक्षतिः स्त्रियाम् ।पक्षमूले कुलायस्तु नीडोऽस्त्री डयनं गतिः ॥ ८२४ ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव लिङ्गादिसंग्रहः Trikāṇḍaśeṣa 4.3 · p. 269
अवटव्रातसङ्केतपोतगर्तगरुच्छदाः ।श्लेमोष्मपापयक्ष्माश्मात्मानो वातायनः स्तनः ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश ज्योतिरध्यायः Vaijayantī 2.1.63 · p. 22
परितोऽथावतमसं लघ्वन्धतमसं महत् ।छदो व्यवधिरन्तर्धिर्वरणं चापवारणम् ॥ ६३ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश खगाध्यायः Vaijayantī 2.3.49 · p. 30
छदः पक्षो गरुद्वाजश्छदनं च तनूरुहम् ।पतत्रं च कुलायस्तु पञ्जरं नीडमस्त्रियाम् ॥ ४९ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.16 · p. 46
विस्तारो विटपः स्तम्ब उच्छ्रायस्तु ममुन्नतिः ।छदस्तु छदनं पत्रं पलाशं पतनं दलम् ॥ १६ ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास दपादः Dharaṇikośa 17.1.1 · p. 92
रदो विलेखने दन्ते छदः स्यात्पक्षपत्रयोः ।क्षोदश्च पेषणे धूलौ स्वादुर्मिष्टमनोज्ञयोः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ दान्ताः Koṣakalpataru 6.19.20 · p. 234
स्थानाङ्घ्रिचिह्नाङ्कगतं पदं स्या-च्छदोऽस्त्रि पत्रे[वि]गरुत्तमाले ।स्याद्ग्रन्थिपर्णेऽपि रदस्तु दन्तेविलेखने चाथ शुभेऽपि भन्दम् ॥ २० ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पुल्लिँङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.2.51 · p. 25
चरुः स्थाल्यां हव्यपाके मेघेऽथ च्यूपवाग्रवौ ।वाते युद्धे छदस्तु स्यात् पक्षिपक्षेऽपवारणे ॥ ५१ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पुल्लिँङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.2.52 · p. 25
वृक्षपत्रेऽप्यथच्छन्दो वंशेऽभिप्रायवाञ्छयोः ।ज्वरस्तु व्याधिमात्रे च हरकोपसमुद्भवे ॥ ५२ ॥
अनुष्टुप्
doubtful
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास छकारादयः Paramānandīyanāmamālā 5.12.189 · p. 186
छदः पत्रे ग्रन्थिपर्णे पतत्रेऽपि तमालके ॥ १८९ ॥
शिवकोष Śivakoṣa · शिवदत्तमिश्र दद्विः Śivakoṣa 14.1.221 · p. 21
ग्रन्थिपर्णे तमालेऽपि मदो मार्गे च शीधुनि ।मदा तु शीधुपुष्पायां शादो जम्बालशष्पयोः ॥ २२१ ॥
अनुष्टुप्
doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश दान्ताः Śabdaratnāvalī 7.18.2 · p. 228
अब्दः सम्वत्सरे मेघे युस्तके च पयोनिधौ ॥अन्दूर्भूषणभेदे स्यान्निगडेऽपि भवेत् स्त्रियाम् ।कन्दोऽस्त्री शस्यमूले स्याच्छूरणे जलदे पुमान् ॥कुन्दो मुकुन्दे निधिभिद्भूमिष्वस्त्री तु माथ्यके ।क्षोदः स्यात्पेषणे पुंसि सन्धाने च रजस्यपि ॥गदो विष्णुभ्रातरि स्याद्व्याधौ ना चायुधे गदा ।छदः पक्षे च पत्रे च ग्रन्थिपर्णे तमालके ॥छन्दोऽभिप्रायवशयोर्वेदकिन्यामनीषयोः(?) ।नन्दिर्ना नन्दिकेश्वरद्युताङ्गानन्दयोरपि ॥नदी स्त्रियान्तु सरिति शोणादौ नदः पुमान् ।नन्दाहलिञ्जरगोर्योस्तु तिथिभेदेऽपि च स्त्रियाम् ॥पुमान्नरपतौ गोपभेदानन्दनिधिष्वपि ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 7 श्व (wrong syllable)nearly अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.1922 · p. 234
छदः पक्षे पलाशे च च्छन्दोऽभिप्रायवाञ्छयोः ।कान्त्यनातपयोश्छाया प्रतिबिम्बार्कभार्ययोः ॥ १९२२ ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.206 · p. 162
शिवजूटे वराटेऽपि कपर्दोऽथाऽमये गदः ।विष्णोर्भ्रातरि चास्त्रे स्त्री पलाशे गरुति च्छदः ॥ २०६ ॥
अनुष्टुप्

छद as a meaning in nānārtha verses

  • नामलिङ्गानुशासनम् दलहालः स्यान्नृपतौ मद्ये शकलच्छदयोर्दलम् ॥ Amarakośa 3.3.390
  • धरणिकोश पर्णजीर्णे पक्कपुराणे [च] भ्रूणोऽप्यर्भकगर्भयोः । स्थूणा स्तम्बे च शूर्म्यां च पर्णाख्या किंशुके छदे ॥ Dharaṇikośa 14.1.3
  • धरणिकोश छदनतोदनं व्यथने तोत्रे छदनं गरुतिच्छदे । कठिनं कक्खटे स्थाल्यां बन्धनं वधबन्धयोः ॥ Dharaṇikośa 19.1.13
  • कोषकल्पतरु अररकरीरकोशेऽपि च तालपत्रे स्याद्वण्ठरच्छिन्नकरेभ्यवच्च । छदे कपाटेऽप्यररं रणे च करीरवृक्षे कुररः खगे च ॥ ९४ ॥ Koṣakalpataru 6.27.94
  • कोषकल्पतरु दलउत्सेधशस्त्रीच्छदयोश्च खण्डे द्रव्ये च षण्ढेऽथ नलो नृपाले । यमे कपौ पोटगले स्त्रियां तु मनःशिलायां नलिने द्वयोनम् ॥ ५१ ॥ Koṣakalpataru 6.28.51
  • कोषकल्पतरु पक्षस्महस्तथा तेजसि चोत्सवेऽन्त्ये *दस्तथाङ्कस्तु शरीरचिह्ने । पाथो जलेऽन्नेऽप्यथ पक्ष उक्तं छदे च वर्षार्धकपक्षयोश्च ॥ १० ॥ Koṣakalpataru 6.31.10
  • नानार्थार्णवसंक्षेप कमलच्छदकमलच्छदशब्दोऽयं कमलस्यच्छदे पुमान् । द्वे कङ्काख्यखगेऽथो ना नारदे कलहप्रियः ॥ ३८ ॥ Nānārthārṇavasaṃkṣepa 7.38
  • शब्दरत्नावली अत्तीरअशिरो राक्षसे सूर्ये वीतिहोत्रे भवेत्पुमान् । अत्तीरं शक्तपुंसोर्ना वरं छदकपाटयोः(?) ॥ आकरः श्रेष्ठसन्दोहस्थानोत्पत्तिषु पुंस्ययम् । ओधारोऽम्बुधारणेऽधिकरणे त्वालबालके ॥ Śabdaratnāvalī 7.27.56
  • त्रिकाण्डशेष लेखननिशा हरिद्रा रजनी छदे भूर्जे च लेखनम् । राशीनामुदयो लग्नं सक्तलज्जियोस्त्रिषु ॥ २५७ ॥ Trikāṇḍaśeṣa 3.3.257
  • त्रिकाण्डशेष दलदुकूलं श्लक्ष्णवस्त्रेऽपि चार्द्धे पत्रे छदे दलम् । धवला गवि ना शण्डे शुक्लसुन्दरयोस्त्रिषु ॥ ३९७ ॥ Trikāṇḍaśeṣa 3.3.397
  • वैजयन्ती पालिपालिरश्रिः प्रदेशोंऽकः सश्मश्रुः स्त्री त्सरुश्छदः । छन्दः संख्यावली पङ्क्तिः पक्तिर्गौरवपाकयोः ॥ २२ ॥ Vaijayantī 6.2.22
  • वैजयन्ती दलमिथ्याज्ञायां सैन्यभेदे दलो भागे दलं छदे । दरोऽस्त्री शंखभीगर्तेष्वल्पार्थे त्वव्ययं दरम् ॥ ३९ ॥ Vaijayantī 6.5.39