कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

हर्षण

harṣaṇaवि · adj.

In 4 kośas: 6 synonym verses, 2 as a nānārtha head word, 2 as a meaning of another word.

कल्पद्रुकोशः Kalpadrukośa · केशव विशेष्यनिघ्नकाण्डः Kalpadrukośa 1.9.94 · p. 224
हर्षणो हर्षुकस्तुल्यौ श्वेतविन्दुयुते द्वयम् ।स्यात्पृषत् पृषतस्तद्वत् कान्दिशीको भयद्रुते ॥ ९४ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.282 · p. 280
अस्त्रियां तगरो वक्रो विनम्रः कुञ्चितो नतः ।स्याच्छदो नहुषो दण्डहर्षो हर्षण इत्यपि ॥ २८२ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.47 · p. 385
अथ स्याच्छ्राद्धदेवार्थो यमः कालोऽन्तको हरिः ।कृतान्तो हर्षणः कङ्को महिषाद्वाहनध्वजः ॥ ४७ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव कालप्रकाण्डः Kalpadrukośa 2.4.9 · p. 406
गण्डो वृद्धिर्ध्रुवश्चापि व्याघातश्चापि हर्षणः ।वज्रं सिद्धिर्व्यतीपातो वरीयान्परिघः शिवः ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.97 · p. 113
विकुर्वाणो हर्षणः स्यात्प्रमना हर्षसंयुतः ।विमना दुर्मनाश्चापि मतश्चान्तर्मनास्तथा ॥ ९७ ॥
अनुष्टुप्
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश प्राणिवर्गप्रकाशः Śabdaratnāvalī 4.1.51 · p. 162
हर्षणो हर्षकोऽपि स्यात् पूरणः पूरकोऽपि च ।प्रतिवेशी प्रतीवेशी चासन्नगृहमेधिनि ॥
अनुष्टुप्
genderविadj.
धरणिकोश Dharaṇikośa · धरणिदास णार्धश्लोकः Dharaṇikośa 14.2.8 · p. 51
मत्कुणोऽश्मश्रुपुरुष उद्दंशादन्तदन्तिनोः ।हर्षणोऽक्षिरुजां भेदे हर्षणौ [योग?]हर्षकौ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश णान्ताः Śabdaratnāvalī 7.15.72 · p. 212
श्राद्धभेदे श्राद्धदेवे तथा च हर्षकारके ॥

हर्षण as a meaning in nānārtha verses

  • शब्दरत्नावली प्रीतप्राप्तिः स्त्री प्रायणे लाभे सङ्गतौ च महोदये । प्रीतिः प्रेम्णि च योगे स्यात्प्रीतं हर्षणनर्मयोः ॥ Śabdaratnāvalī 7.16.24
  • शब्दरत्नावली पराआलिङ्गने निरसने पूजा सन्तोषभाषणे । परा प्राधान्यमोक्षाभिमुख्यविक्रमहर्षणे ॥ प्रातिलोम्ये भृशार्थे च तथा गतिवधार्थयोः । पुरा पुराणे निकटे प्रबन्धातीतभाविषु ॥ स्वराकाशे शोभने च स्वर्गेऽपि च भावान्तरे ॥ Śabdaratnāvalī 8.1.53