कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

न्यञ्च्

nyañcवि · adj.

In 9 kośas: 8 synonym verses, 2 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1430 · p. 54
दीर्घायते समे तुङ्गमुच्चमुन्नतमुद्धुरम् ॥ १४२८ ॥प्रांशूच्छ्रितमुदग्रं च न्यङ्नीचं ह्रस्वमन्थरे ।खर्वं कुब्जं वामनं च विशालं तु विशङ्कटम् ॥ १४२९ ॥पृथूरु पृथुलं व्यूढं विकटं विपुलं बृहत् ।स्फारं वरिष्ठं विस्तीर्णं ततं बहु महद्गुरुः ॥ १४३० ॥
अनुष्टुप्
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह विशेष्यनिघ्नवर्गः Amarakośa 3.1.70
उच्चप्रांशून्नतोदग्रोच्छ्रितास्तुङ्गेऽथ वामने ।न्यङ्नीचखर्वह्रस्वाः स्युरवाग्रेऽवनतानते ॥ ७० ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.83 · p. 20
ह्रस्वयल्लँघयन्द्राघयंश्च तत्तत्कराः स्मृताः ।खर्वं कुब्जं वामनं च न्यङ् नीचं मन्थरं तथा ॥ ८३ ॥
metre not recognised
genderविadj.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.694 · p. 117
वर्तुले निस्तु(स्त?)लं खर्वे ह्रस्वन्यङ्नीचवामनाः ।आनते कुञ्चितं जिह्ममूर्मिमद्वृजिनं मतम् ॥ ६९४ ॥
अनुष्टुप्
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2599 · p. 419
न्यग्नीचं मन्थनं कुब्जं खर्वं च वामनं पुनः ।ह्रस्वं च सप्त नामानि नीचार्थे प्रथयन्ति वै ॥ २५९९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश विशेषणवर्गप्रकाशः Śabdaratnāvalī 5.25 · p. 165
वामने ह्रस्वखर्वन्यङ्नीचा नीचैस्तथाव्ययम् ।आनते स्यादवाग्रन्तु भवेदवनतोऽपि च ॥
अनुष्टुप्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि षष्ठः काण्डः Śabdaratnākara 6.33 · p. 252
अत्यल्पे त्वल्पीयोऽल्पिष्ठमुच्चे तूत्तुङ्ग-तुङ्गकौ ।उदग्रमनुदग्रं च, खर्वे न्यग्नीचवद् ,गुरौ ॥ ३३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ल्पी (wrong syllable)
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण विशेष्यनिघ्नाध्यायः Śabdaratnākara 3.6.1636 · p. 197
न्यङ्नीचौ प्रह्वविनताववाग्रावनतौ समौ ।कुटिलमरालं वक्रं वेल्लितमाविद्धवृजिनभुग्नानि ॥ १६३६ ॥
अनुष्टुप्metre not read in every line
genderविadj.
धरणिकोश Dharaṇikośa · धरणिदास चपादः Dharaṇikośa 5.1.1 · p. 28
न्यङ् निकृष्टे तथा कार्त्स्ने वीचिः कल्लोलस्वल्पयोः ।अर्चा स्यात्प्रतिमा पूजा क्रौञ्चा द्वीपाद्रिपक्षिषु ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 ल (wrong syllable)
शब्दरत्नावली Śabdaratnāvalī · मथुरेश चान्ताः Śabdaratnāvalī 7.6.7 · p. 195
न्यङ् निम्ननीचयोर्नीचो वामने पामरेऽपि च ।प्राक् पूर्वदिशि देशे पूर्वकाले च वाच्यवत् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्