कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

युद्ध

yuddhaक्ली · neut.

In 19 kośas: 17 synonym verses, 2 as a nānārtha head word, 91 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.606 · p. 32
प्राणः स्थाम तरः पराक्रमबलद्युम्नानि शौर्यौजसीशुष्मं शुष्म च शक्तिरूर्जसहसी युद्धं तु संख्यं कलिः ।संग्रामाहवसंप्रहारसमरा जन्यं युदायोधनंसंस्फोटः कलहो मृधं प्रहरणं संयद्रणो विग्रहः ॥ ७९६ ॥द्वन्द्वं समाघातसमाह्वयाभिसंपातसम्मर्दसमित्प्रघाताः ।आस्कन्दनाजिप्रधनान्यनीकमभ्यागमश्च प्रविदारणं च ॥ ७९७ ॥समुदायः समुदयो राटिः समितिसंगरौ ।अभ्यामर्दः संपरायः समीकं सांपरायिकम् ॥ ७९८ ॥आक्रन्दः संयुगश्चाथ नियुद्धं तद्भुजोद्भवम् ।
शार्दूलविक्रीडितम्
प्राणपुंस्थामन्क्लीतरस्क्लीपराक्रमपुंबलक्लीद्युम्नक्लीशौर्यक्लीओजस्क्लीशुष्मक्लीशुष्मन्क्लीशक्तिस्त्रीऊर्जस्क्लीसहस्क्लीयुद्धक्लीसंख्यक्लीकलिपुंसंग्रामपुंआहवपुंसंप्रहारपुंसमरपुंजन्यक्लीयुध्स्त्रीआयोधनक्लीसंस्फोटपुंकलहपुंमृधक्लीप्रहरणक्लीसंयत्स्त्रीरणपुंविग्रहपुंद्वन्द्वक्लीसमाघातपुंसमाह्वयपुंअभिसंपातपुंसंमर्दपुंसमित्स्त्रीप्रघातपुंआस्कन्दनक्लीआजिस्त्रीप्रधनक्लीअनीकक्लीअभ्यागमपुंप्रविदारणक्लीसमुदायपुंसमुदयपुंराटिस्त्रीसमितिस्त्रीसंगरपुंअभ्यामर्दपुंसंपरायपुंसमीकक्लीसांपरायिकक्लीआक्रन्दपुंसंयुगक्लीनियुद्धक्ली
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.175
वीरपानं तु यत्पानं वृत्ते भाविनि वारणे ।युद्धमायोधनं जन्यं प्रधनं प्रविदारणम् ॥ १०३ ॥मृधमास्कन्दनं संख्यं समीकं सांपरायिकम् ।अस्त्रियां समरानीकरणाः कलहविग्रहौ ॥ १०४ ॥सम्प्रहाराभिसम्पात कलिसंस्फोट संयुगाः ।अभ्यामर्द समाघात संग्रामाभ्यागमाहवाः ॥ १०५ ॥समुदायः स्त्रियः संयत्समित्याजिसमिद्युधः ।
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.453 · p. 52
सङ्ग्रामः समितिः समिच्च समरं संख्यं समीकं रणं,युद्धं युत्प्रधनं मृधं समुदयः संयत्कलिः संयुगम् ।द्वन्द्वायोधनसम्प्रहारकलहाक्रन्दाहवाभ्यागमाः,संस्फोटप्रविदारणप्रहरणानीकाजयः सङ्गरः ॥ ४५३ ॥
शार्दूलविक्रीडितम्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.359 · p. 128
आयोधनं च प्रधनं युद्धं संयत् स्त्रियां नरि ।क्रन्दनं रोदनं रावो वृंहितं करिगर्जितम् ॥ ३५९ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.57 · p. 268
युद्धास्कन्दन-सांपरायिक-मृधं द्वंद्वं समीकं तथाजन्यं च प्रविदारणं प्रधनवच्चायोधनं भण्डनम् ।आडम्बरोऽस्त्री पटहो चङ्गलः सूरयो रणः ।ग्राममद्गुरिका ग्राम[123b]युद्धं दोर्भ्यां तु तन्मिथः ॥ ५७ ॥
शार्दूलविक्रीडितम्two metres in one verse
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नपुंसकाधिकारः Koṣakalpataru 4.3.80 · p. 104
चित्र-वस्त्र-घुसृणागरु-हिङ्गु-गूथ-पिच्छ-दल-तालु-हलानाम् ।तुत्थदृङ्मरिचहृन्नलदानांयुद्ध-सिध्म-यकृदस्थि-फलानाम् ॥ ८० ॥
स्वागता
genderक्लीneut.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.201 · p. 33
मृध आस्कन्दनं युद्धं समिदायोधनं रणम् ।स्वक्षेत्रे सुकृतिकाङ्क्षी वीराङ्को वीरदर्शनः ॥ २०१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ति (wrong syllable)
genderक्लीneut.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 87 · p. 44
कदनं समरं युद्धं संयुगं कलहं रणम् ।संग्रामं सम्परायाजी संयदाहुर्महाहवम् ॥ ८७ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.394 · p. 151
संग्रामसमरे युद्धं द्वन्द्वसङ्ख्ये कलिः समित् ।अजन्यायोधने संयद्रणो विग्रह इत्यपि ॥ ३९४ ॥
अनुष्टुप्
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.384 · p. 74
युद्धे युद्धं सायुधं युदाजिः संपात इत्यपि ।जन्यं संख्यं मृधं कल्पं कलिरास्कन्दनं तथा ॥ ३८४ ॥
अनुष्टुप्
genderक्लीneut.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त भूमिभानुः Pañcatattvaprakāśa 2.230 · p. 16
दारुका वह्निचूर्णाख्या सुरङ्गा दुर्गसर्पिणी ।समरः प्रधनं युद्धं जन्यमायोधनं मृधम् ॥ २३० ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति राजवर्गः Śāradīyākhyanāmamālā 3.2.33 · p. 37
संग्रामः समरं युद्धं प्रघनं संयुगं रणम् ।जन्यमायोधनं संख्यमाहवः संपरायकम् ॥ ३३ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1323 · p. 208
युद्धं सङ्ख्यं च सङ्ग्रामः सम्मर्दश्च समाह्वयः ॥ १३२३ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.374 · p. 135
युद्धमास्कन्दनं जन्यं प्रधनं साम्परायिकम् ।मृधमायोधनं संख्यं समीकं प्रविदारणम् ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.289 · p. 212
ऊर्ज ऊर्जो गूर्जः सान्तं क्लीबं च सहसा सहः ।सङ्ग्रामे युद्धं युत् संयत् पुंस्त्रियोश्च संयद्वरः ॥ २८९ ॥
metre not recognised
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण क्षत्रियाध्यायः Śabdaratnākara 3.3.1375 · p. 167
शस्त्रक्षते तु प्रहृतः स्यात् त्रिष्वनुचरादयः ।युद्धायोधनजन्यप्रविदारणसांपरायिकमृधानि ॥ १३७५ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.203 · p. 120
नासीरोऽस्त्र्यग्रयानं स्यादवस्कन्दस्तु सौप्तिकः ।मृधमास्कन्दनं युद्धं समिकं सांपरायिकम् ॥ २०३ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धातुवर्गः Koṣakalpataru 3.5.23 · p. 47
जजति स्याज्जञ्जति च संग्रामयति युध्यते ।युध्यति स्याद्रिफति च युध्याङः स वधे स्मृतः ॥ २३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ज्ज (wrong syllable)
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1069 · p. 134
युद्धस्तु शत्रौ सङ्ग्रामे ना योद्धरि तु स त्रिषु ।यूथमस्त्री तिरश्चां स्याद् बृन्दे यूथी पुनः स्त्रियाम् ॥ १०६९ ॥
अनुष्टुप्

युद्ध as a meaning in nānārtha verses