कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

गर्जन

garjanaक्ली · neut.

In 8 kośas: 6 synonym verses, 4 as a nānārtha head word, 1 as a meaning of another word.

बालप्रबोधिका Bālaprabodhikā · नत्कीर चतुर्थोपदेशः Bālaprabodhikā 4.61 · p. 71
कूजितं गर्जनं गर्जा क्रोशनं प्लुतभेदके ।आरवारस्वारवणो रवो रावविराववत् ।वाशनं वाशितं च स्याद्ध्वान्ते घोरनिवासितम् ॥ ६१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्वा (wrong syllable)
genderक्लीneut.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम स्वर्गाधिकारो दिक्पालाधिकारश्च प्रथमस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 1.92 · p. 16
गर्जितं स्तनितं जीर्णं गर्जा गर्जनमित्यपि ।निर्घोषो घनघातः स्यान्महाघात इतीर्यते ॥ ९२ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ व्योमवर्गः Koṣakalpataru 1.3.10 · p. 26
वार्द्दलं च द्वयोर्गर्जः परिघोषो घनध्वनिः ।स्तनितं रसितं क्लीबे समे गर्जितगर्जने ॥ १० ॥
अनुष्टुप्
genderक्लीneut.
शब्दचन्द्रिका Śabdacandrikā · वामनभट्टबाण अन्तरिक्षाधिकारो द्वितीयस्सर्गः Śabdacandrikā 2.15 · p. 37
निर्घोषो गर्जनं गर्जा घनघोष इतीर्यते ।हिमस्तुषारः पृषतः संवालज इतीयते ॥ १५ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.654 · p. 84
सुकन्दकः श्वेतकन्दः पलाण्डुश्च समा इमे ।हरिद्रक्ते स्वल्पकन्दो गृञ्जनो गर्जनो गजः ॥ ६५४ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.206 · p. 62
स्वल्पकन्दे हरिद्रक्ते गृञ्जनो गर्जनो गुजः ।लशुनं दीर्घपत्रं च पिच्छनद्धो महौषधः ॥ २०६ ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास नपादः Dharaṇikośa 19.1.15 · p. 107
क्रन्दने रोदनाह्वाने मेहने मूत्रशेफसी ।लङ्घनं क्रमणे ग्लानौ गर्जनं ध्वनिकोपयोः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नान्ताः Koṣakalpataru 6.21.59 · p. 255
न्यासे लिपेर्वाद्यगतं च तद्व-त्स्याद्योजनं क्रोशचतुष्टयेऽपि ।योगे परात्मन्यथ गर्जनं स्या-त्कोपे च हस्त्यम्बुदवाद्यशब्दे ॥ ५९ ॥
इन्द्रवज्रा
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.652 · p. 103
मत्तहस्तिनि तन्नादे पुनः क्ली स्तनितेऽपि च ।अम्बुदस्याथ पुंसि स्याद् गर्जनो गृञ्जनाह्वये ॥ ६५२ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.653 · p. 103
पलाण्डुजातिभेदेऽथ क्रियायां गर्जतेर्नपि ।ग्रन्थिकं तु नपि ज्ञेयं पिप्पलीमूलसंज्ञके ॥ ६५३ ॥
अनुष्टुप्

गर्जन as a meaning in nānārtha verses