कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

गृञ्जन

gṛñjanaपुं · masc.

In 15 kośas: 20 synonym verses, 7 as a nānārtha head word, 3 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य वनस्पतिकायः Abhidhānacintāmaṇi 4.5.118 · p. 46
रसोनो लसुनोऽरिष्टो म्लेच्छकन्दो महौषधम् ॥ ११८६ ॥महाकन्दो रसोनोऽन्यो गृञ्जनो दीर्घपत्त्रकः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 भृ (wrong syllable)
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.148
लतार्कदुद्रुमौ तत्र हरितेऽथ महौषधम् ।लशुनं गृञ्जनारिष्टमहाकन्दरसोनकाः ॥ १४८ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.115 · p. 145
विष्णुगुप्तो महाकन्दो वालेयो मरुसम्भवः ।शालाककटुकश्चापि कौटिल्यश्चाथ गृञ्जनः ॥ ११५ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.129 · p. 147
तत्र रक्ते दीर्घपत्रो यवनेष्टश्च गृञ्जनः ।स्थूलकन्दः पलाण्डुस्तु तीक्ष्णकन्दश्च दीपनः ॥ १२९ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.168 · p. 480
भवनस्यानुमानस्य लशुनस्य ततः पुनः ।गृञ्जनस्यापि शयनद्वीपयोः कुतपस्य च ॥ १६८ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.48 · p. 179
बाले मूलकपोतात्र गृञ्जनं त्वस्त्रियां भवेत् ।गर्जरं पीतकं च स्याद्भवेन्नारङ्गकन्दकम् ॥ ४८ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.58 · p. 180
महौषधं गृञ्जनस्तु न स्त्री स्यादल्पनालकः ।सूक्ष्मपत्रः पलाण्डोस्तु परणाघभिदो दशा ॥ ५८ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंनपुंसकलिङ्गाधिकारः Koṣakalpataru 4.5.51 · p. 113
genderपुंक्लीm. n.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र शाककाण्डः Nighaṇṭuśeṣa 4.339 · p. 183
महाकन्दोऽपरोऽप्येष गृञ्जनो दीर्घपत्रकः ।पलाण्डौ यवनेष्टः स्यात् सुकन्दो वक्त्रदूषणः ॥ ३३९ ॥
अनुष्टुप्
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.60 · p. 15
अर्शोघ्नी मुसली ताली तालमूली खलिन्यपि ।खञ्जोऽरिष्टो ग्रहोच्छिष्टो रसोनो गृञ्जनः कटुः ॥ ६० ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.107 · p. 65
गृञ्जनश्चाप्याथ भृङ्गराजः स्यात्केशरञ्जनः ।मार्कवश्च भृङ्गरजो वायसी काकमाच्यपि ॥ १०७ ॥
metre not recognised
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंनपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.5.147 · p. 229
genderपुंक्लीm. n.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त वृक्षलतौषधिमरीचिः Pañcatattvaprakāśa 1.4.201 · p. 14
ग्रन्थिमूलं शिखाकन्दं गृञ्जनं यवनप्रियम् ।शृङ्गाटकः शृङ्गकन्दो जलवल्ली विषाणिकः ॥ २०१ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.2143 · p. 352
रसोनो म्लेच्छकन्दश्च सप्त नामानि सन्ति वै ।दीर्घपत्रकनामापि रसोनो गृञ्जनो भवेत् ॥ २१४३ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.272 · p. 77
अस्मिन्नेव हरिद्वर्णे लतार्को दुर्द्रुमोऽपि च ।रसोनको महाकन्दो म्लेच्छकन्दोऽपि गृञ्जनम् ।महौषधमरिष्टश्च लशुनञ्च लशूनवत् ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.654 · p. 84
सुकन्दकः श्वेतकन्दः पलाण्डुश्च समा इमे ।हरिद्रक्ते स्वल्पकन्दो गृञ्जनो गर्जनो गजः ॥ ६५४ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.656 · p. 84
परुण्डुश्च पलाण्डुश्च लतार्कश्चापराजिता ।गृञ्जनो यवनेष्टश्च पलाण्डोर्दश जातयः ॥ ६५६ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.57 · p. 49
गृञ्जनः स्वादुगन्धा च प्रियालुस्तु धनुः पटः ।कार्ष्मर्ये गोपभद्रा स्यात् कार्ष्मरी कृष्णवृन्तिका ॥ ५७ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.206 · p. 62
स्वल्पकन्दे हरिद्रक्ते गृञ्जनो गर्जनो गुजः ।लशुनं दीर्घपत्रं च पिच्छनद्धो महौषधः ॥ २०६ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.207 · p. 62
फरुण्डश्च पलाण्डुश्च लतार्कश्च परारिका ।गृञ्जनो यवनेष्टश्च पलाण्डोर्देश जातयः ॥ २०७ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नान्ताः Koṣakalpataru 6.21.58 · p. 255
ज्येष्ठ्यां भवेत्तत्र च लेपनाया-मथो रसोनेऽपि च गृञ्जनोऽस्त्री ।वि[षेण]लिप्त स्य पशोश्च मांसेक्लीबेऽथ वान्तोयुजि लेखनं न ॥ ५८ ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.679 · p. 106
ना मद्दलध्वनौ क्ली तु वनेऽथो गृञ्जनः पुमान् ।मधुशिग्रुसमाख्ये स्याच्छिग्रुवृक्षान्तरे तथा ॥ ६७९ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.680 · p. 106
पलाण्डुजातिभेदानां दशानामपि कुत्रचित् ।भेदेऽर्थे त्वत्र मन्यन्ते क्लीबं केचन सूरयः ॥ ६८० ॥
अनुष्टुप्
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.681 · p. 106
विषदिग्धपशोस्तु क्ली मांसे ना तु गृहस्थवाक् ।द्वितीयाश्रमिणि त्रिस्तु मन्दिरस्थेऽथ पुंस्ययम् ॥ ६८१ ॥
अनुष्टुप्
meaningsमांस
doubtful
शिवकोष Śivakoṣa · शिवदत्तमिश्र नत्रिः Śivakoṣa 16.1.250 · p. 23
क्लीतना सिंहपुच्छ्यां च नीलिकायां च गृञ्जनः ।पलाण्डुभेदे लसुने मधुशिग्रौ च पीनसि ॥ २५० ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश नान्ताः Śabdaratnāvalī 7.20.55 · p. 237
ग्रावा स्यात्पुंसि पाषाणे दृढे पृथ्वीधरेऽपि च ।गृञ्जनो ना रसोने स्त्री निषाक्तपशुमांसके ॥गोस्तनो ना हारभेदे द्राक्षायां स्त्री च गोस्तनी ।गोमी पुंसि जम्बुके स्याद्गोमत्युपासके त्रिषु ॥चलनं भ्रमणे कम्पे क्लीबं कम्पयुते त्रिषु ।चलनी वस्त्रविधिन्यां वारीभेदे च कुत्रचित् ॥चक्री काककुलालाजग्रामजालिकसूचके ।सर्पे तैलिकभेदे स्याद्वासुदेवे च पुंस्ययम् ॥चर्मी भृङ्गरिटौ भूर्जे मोचाफलकहस्तयोः ।चर्म क्लीबन्तु फलके कृत्तौ त्वचि तु कुत्रचित् ॥चेतनो वाच्यवत् प्राणयुक्ते च संविदि स्त्रियाम् ।छर्दनं वमने क्लीबं पुंसि निम्बेऽप्यलम्बुषे ॥छदनं चलने पक्षे पिधानेऽपि नपुंसकम् ।छेदनन्तु द्विधा कार्ये कर्त्रनेऽपि च न द्वयोः ॥जवनस्तु रये वेगिहये वेगवति त्रिषु ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 4 सि (wrong syllable); pāda 4, syllable 3 त्यु (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 6 वि (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
meaningsरसोन
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.236 · p. 172
चर्चिकाचिल्लदयिते खकामिन्यौ प्रकीर्त्यते ।विषदिग्धपशोर्मांसे गृञ्जनं ना रसोनके ॥ २३६ ॥
अनुष्टुप्

गृञ्जन as a meaning in nānārtha verses