कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

गज

gajaपुं · masc.

In 19 kośas: 23 synonym verses, 1 as a nānārtha head word, 64 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवाधिदेवकाण्डः Abhidhānacintāmaṇi 1.48 · p. 5
वृषो गजोऽश्वः प्लवगः क्रौञ्चोऽब्जं स्वस्तिकः शशी ।मकरः श्रीवत्सः खड्गी महिषः सूकरस्तथा ॥ ४७ ॥श्येनो वज्रं मृगश्छागो नन्द्यावर्तो घटोऽपि च ।कूर्मो नीलोत्पलं शङ्खः फणी सिंहोऽर्हतां ध्वजाः ॥ ४८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 व (wrong syllable)
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.535 · p. 31
गजो वाजी रथः पत्तिः सेनाङ्गं स्याच्चतुर्विधम् ।
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.2 · p. 47
हस्ती मतङ्गजगजद्विपकर्यनेकपा मातङ्गवारणमहामृगसामयोनयः ।स्तम्बेरमद्विरदसिन्धुरनागदन्तिनो दन्तावलः करटिकुञ्जरकुम्भिपीलवः ॥ १२१७ ॥इभः करेणुर्गर्जोऽस्य स्त्री धेनुका वशापि च ।
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 नु (wrong syllable)
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.57
दन्ती दन्तावलो हस्ती द्विरदोऽनेकपो द्विपः ।मतङ्गजो गजो नागः कुञ्जरो वारणः करी ॥ ३४ ॥इभः स्तम्बेरमः पद्मी यूथनाथस्तु यूथपः ।
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.214 · p. 26
मातङ्गद्विरदद्विपाः करिगजस्तम्बेरमानेकपाः,कुम्भीकुञ्जरवारणेभरदिनः सामोद्भवः सिन्धुरः ।तुल्यार्थाः कथिता हरिर्मृगपतिः पञ्चाननः केसरी,हर्यक्षो नखरायुधो मृगरिपुः सिंहश्च कण्ठीरवः ॥ २१४ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम Gīrvāṇabhāṣābhūṣaṇa 61 · p. 6
इभराजस्तु भद्रः स्यादुक्षोनड्वानितीर्यते ।गजे तु शुण्डसारः स्यात्पद्मवर्णः सुखाशनः ॥ ६१ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.129 · p. 103
रथो गजोऽश्वः पादातः सेनाङ्गं स्याच्चतुर्विधम् ।युद्धार्थे चक्रवद्याने शताङ्गः स्यन्दनो रथः ॥ १२९ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.144 · p. 105
निर्लूनः करटी नाग इभः स्तम्बेरमो गजः ।करी मतङ्गजः पद्मी शूर्पकर्णो लतारतः ॥ १४४ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.550 · p. 193
गजं गण्डूपदभवं नागं वम्रे च न स्त्रियाम् ।योगीष्टं यवनेष्टं स्यात् कुवङ्गं परिपिष्टकम् ॥ ५५० ॥
अनुष्टुप्
genderक्लीneut.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.165 · p. 29
स्तम्बेरमो गजो गर्जो द्विरदोऽनेकपो द्विपः ।दन्तावलो महाकायो वारणः कुञ्जरोऽसुरः ॥ १६५ ॥
अनुष्टुप्
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 88 · p. 45
गजो मतङ्गजो हस्ती वारणोऽनेकपः करी ।दन्ती स्तम्बेरमः कुम्भी द्विरदेभमितङ्गमाः ॥ ८८ ॥
अनुष्टुप्
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 181 · p. 86
अञ्जनं कज्जलं नागं गजपाटलमारुणम् ।सालं परिधि वृक्षं च कुल्यां स्त्रीं सारणीं विदुः ॥ १८१ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.134 · p. 69
गजो द्विपस्तथेभोऽसौ कुम्भिकुञ्जरपीलवः ।करटी सिन्धुरो दन्ती दन्तावलमहामृगौ ॥ १३४ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.367 · p. 147
पताका वैजयन्ती च केतनं ध्वज उच्यते ।पत्ती रथो गजो वाजी सेनाङ्गं तु चतुर्विधम् ॥ ३६७ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.153 · p. 17
द्वीपी व्याघ्रश्चित्रकायः शार्दूलः शरभोऽष्टपाद् ।गजो मतङ्गजो हस्ती मातङ्गः कुञ्जरः करी ॥ १५३ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1052 · p. 192
पत्ती रथो गजो वाजी स्यात् सेनाङ्गं चतुर्विधम् ।
अनुष्टुप्metre not read in every line
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2198 · p. 361
गजो मतङ्गजो गर्जो मातङ्गश्च महामृगः ॥ २१९८ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.220 · p. 126
हस्तिनोऽश्वाः रथाः पत्तिव्रजाः सेनाङ्गमुच्यते ।हस्तीमतङ्गमातङ्गमतङ्गजगजद्विपाः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.289 · p. 242
द्विपे मतङ्ग-मातङ्गौ गजो गर्जो मतङ्गजः ।करी करिर्दन्तावलो दन्ती पेचकिपेचिलौ ॥ २८९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 न्ता (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.654 · p. 84
सुकन्दकः श्वेतकन्दः पलाण्डुश्च समा इमे ।हरिद्रक्ते स्वल्पकन्दो गृञ्जनो गर्जनो गजः ॥ ६५४ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चतुष्पदाध्यायः Śabdaratnākara 2.4.698 · p. 89
मातङ्गः करटीभवारणकरिस्तम्बेरमानेकपाःशुण्डालद्विपहस्तिनागमदमुक्शूर्पश्रवःकुजराः ।वेतण्डद्विरदौ महाबलगजौ दन्तावलः सिन्धुरःपद्मी सामभवो रदी च करिणः कुम्भौ शिरःपिण्डकौ ॥ ६९८ ॥
शार्दूलविक्रीडितम्metre not read in every linenearly शार्दूलविक्रीडितम्: pāda 2, syllable 17 कु (wrong syllable)
genderपुंmasc.
उत्पलिनी Utpalinī · व्याडि Utpalinī 42 · p. 47
उदीच्यां यक्षहेरम्बौ तौ च पिङ्गगजौ क्रमात् ।प्राच्यां तु रुद्ररेवन्तौ तौ दण्डिपुरुषौ क्रमात् ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.60 · p. 109
इभो मतंगजो हस्ती दन्ती कुंभी करी रदी ।स्तंबेरमो गजो गर्जो द्विरदोऽनेकपो द्विपः ॥ ६० ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास गकारादयः Paramānandīyanāmamālā 5.9.149 · p. 180
गजो मतङ्गजे माने गञ्जा स्यान्मदिरागृहे ॥ १४९ ॥

गज as a meaning in nānārtha verses