हित
hitaपुं · masc.In 13 kośas: 9 synonym verses, 2 as a nānārtha head word, 22 as a meaning of another word.
अरातिरहितः शत्रुः दूषणः शात्रवः परः ।मित्रं निजात्मीयजनौ वयस्येष्टहितप्रियाः ॥ ३४० ॥
अनुष्टुप्
genderपुंmasc.
उपचर्याथात्मनीनमायुष्यं च हितं च तत् ।पथ्यं स्यादप्यथारोग्यं वार्त्तं पाटवलाघवे ॥ ३६१ ॥
अनुष्टुप्
genderविadj.
रिष्टं हितं शर्म सुखं प्रियं चजोषं च कं शं मतमव्ययाह्वम् ।त्रिष्वानु[5a]कूल्येन सुखादिकारीप्रियाकरोऽसौ च सुखाकरश्च ॥ ४५ ॥
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा: pāda 2, syllable 1 प्रि (wrong syllable)
genderक्लीneut.
कपूरे तु पुमान् शीतगुणेऽपि त्रि तु तद्वति ।हिमा तु स्त्री निशीथिन्यां मृडान्यां च हितं पुनः ॥ १५९३ ॥
अनुष्टुप्
genderविadj.
प्रतिपक्षो विपक्षश्च दुर्हृद्द्वेष्यभियातिकः ।मित्रं स्निग्धो वयस्यश्व हितोऽत्मीयो निजः प्रियः ॥ २२ ॥
अनुष्टुप्
genderपुंmasc.
दयानुकम्पा करुणानुक्रोशश्च कृपा घृणा ।प्रसनता प्रसत्तिश्च प्रसादोऽनुग्रहो हितम् ॥ ८३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 न (wrong syllable)
genderक्लीneut.
त्रिषु भल्लातकी भल्ली वीरवृक्षोऽप्यरुष्करः ।अरुषेकाऽग्निमुखी चासौ हितो रक्षोघ्न इत्यपि ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
मित्रं नपुं त्रिषु स्निग्धवयस्येष्टहितप्रियाः ।निजात्मीयाप्तसुहृदः सहायः सद्रुचिः सखा ॥ ४३ ॥
अनुष्टुप्
genderविadj.
न्यस्ते त्वारोपितोऽध्यस्तो निहितोऽपहितो हितः ।उपसन्नं तूपनतमुपप्राप्तमुपस्थितम् ॥ १०४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 तू (wrong syllable)
genderविadj.
हित as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् समर्थसमर्थस्त्रिषु शक्तिस्थे सम्बद्धार्थे हितेऽपि च । दशमीस्थौ क्षीणरागवृद्धौ वीथी पदव्यपि ॥ ८७ ॥ Amarakośa 3.3.87
- नामलिङ्गानुशासनम् क्षमक्षितिक्षान्त्योः क्षमायुक्ते क्षमं शक्ते हिते त्रिषु । Amarakośa 3.3.272
- धरणिकोश समर्थक्वाथः स्याद्द्रवनिष्पाके क्वाथो दुःख उदाहृतः । समर्थः कथितः शक्ते संबद्धार्थे हितेऽपि च ॥ Dharaṇikośa 16.2.6
- धरणिकोश क्षमसमा वर्षं समं तुल्यं समं साधु समं सदृक् । क्षमा तितिक्षा योग्ये च क्षमं शक्ते हिते क्षमम् ॥ Dharaṇikośa 24.2.8
- धरणिकोश पथ्यपथ्यं हितेऽभया पथ्या वीक्ष्यं विस्मयदृश्ययोः । दैत्योऽसुरः सुरा दैत्या गेयौ गातव्यगायनौ ॥ Dharaṇikośa 25.1.5
- कोषकल्पतरु आचितपलायुतानां द्वितये च शाकटे स्यात्संगृहीतेऽपि हिते तथाचितः । मृषार्थके स्याद्गुणिते च ताडिते माने पुराणे सिचये तथाहतः ॥ ७४ ॥ Koṣakalpataru 6.16.74
- कोषकल्पतरु समर्थगजस्य तद्वत्करसीकरे स्या- द्विच्छा सु(?)शाकेष्वपि दृश्यते च । संबद्धशक्तेऽपि हिते समर्थः । सिद्धार्थ उक्तो मुनिसिंहकेऽपि ॥ ८ ॥ Koṣakalpataru 6.18.8
- कोषकल्पतरु पथ्यभाग्यं नियत्यां च शुभादिकृत्यां पाक्यं विडे स्यादपि यावशूके । पथ्यं हिते स्यात्त्रिषु योषिति स्या- द्धरीतकीनामनि चापणे तु ॥ १९ ॥ Koṣakalpataru 6.26.19
- नानार्थार्णवसंक्षेप आशीस्द्वितीयपादगीत्यां च तृतीयार्चिकपर्वणोः । आवृत्तावपि चाथाशीर्हिताशंसाहिदंष्ट्रयोः ॥ ११ ॥ Nānārthārṇavasaṃkṣepa 2.1.11
- नानार्थार्णवसंक्षेप क्षमाक्षमा क्षान्तिपृथिव्योः स्त्री त्रिषु योग्यसमर्थयोः । न्याये हिते क्षपा तु स्त्री निशीथिन्यां पुमांस्तु सः ॥ १४४ ॥ Nānārthārṇavasaṃkṣepa 2.5.144
- नानार्थार्णवसंक्षेप पथ्यवा त्रिष्वित्याह पथ्यं तु त्र्यनपेते पथो हिते । यागाङ्गेषु च नित्येषु विष्टुत्यादिषु मन्वते ॥ ७०९ ॥ Nānārthārṇavasaṃkṣepa 2.5.709
- नानार्थार्णवसंक्षेप समर्थशिरःस्थो व्यवहारस्थेऽभियोक्तरि शिरःस्थिते । समर्थस्तु समानार्थ सम्बन्धार्थे हितेऽपि च ॥ ५७ ॥ Nānārthārṇavasaṃkṣepa 3.4.57
- नानार्थार्णवसंक्षेप तातगुमनोजवे तु त्रि स्याच्च तप्तेऽथो तातगुः पुमान् । क्षुद्रताते त्रि तु हिते तातायाथास्त्रियां भवेत् ॥ ८५४ ॥ Nānārthārṇavasaṃkṣepa 4.854
- परमानन्दीयनाममाला आप्तश्रीवासधृतयोराज्यमालिः श्रेणिः सखी पुनः । आप्तः सत्ये हिते लब्धेऽथार्यो बुद्धे च कोविदे ॥ ५५ ॥ Paramānandīyanāmamālā 5.1.55
- शब्दरत्नावली समर्थब्राह्मीगुडूचीपश्यासु स्त्रियां स्यात्तरुणे त्रिषु । वमथुर्वमने पुंसि स्यात्कुम्भिकरशीकरे ॥ विदिथः पण्डिते योगे शमथुः शान्तिमन्त्रिणोः । षड्ग्रन्थो ना करञ्जे स्याद्वचायामपि च स्त्रियाम् ॥ समर्थः शक्तहितयोः सम्बन्धे चान्यलिङ्गकः । सिद्धार्थः शाक्यसिंहे च सार्थके श्वेतसर्षपे ॥ Śabdaratnāvalī 7.17.14
- शब्दरत्नावली क्षमक्रमोऽनुक्रमशक्त्योर्ना कल्पाक्रमणयोरपि । क्षमा क्षान्तौ क्षितौ स्त्री तु क्षमं युक्ते नपुंसकम् ॥ वाच्यलिङ्गं हिते शक्ते क्षये क्षीणेऽबले त्रिषु । कामः स्मरेच्छयोः कामं काम्ये वीर्यनिकामयोः ॥ Śabdaratnāvalī 7.25.4
- शब्दरत्नावली पथ्यभेषजे द्रुविकारे च भव्ये भाविनि वाच्यवत् । दस्युश्चौरे रिपौ पुंसि महासाहसिकेऽपि च ॥ दायः सोल्लुण्ठभाषायां भक्तव्यपितृवस्तुति । दाने च हरणे स्थाने खण्डनेऽपि च कुत्रचित् ॥ दिव्यं लवङ्गे स्त्रीधात्र्यां चारौ दिविभवे त्रिषु । दूष्यं वस्त्रगृहे क्लीबं दूषणीये तु वाच्यवत् ॥ दूत्यं दूतस्वभावे च भावे कर्मणि न द्वयोः । दैत्योऽसुरे स्त्रियां गन्धकूट्यां चण्डौषधावपि ॥ धन्याधात्र्यामामलक्यां धन्यं पुत्रवति त्रिषु । धान्यं त व्रीहिधन्याकनीवारादिषु द द्वयो ॥ धिष्ट्यं स्थाने गृहे शक्तावृक्षे च न द्वयोः । नाट्यं तौर्यत्रिके लास्ये ताण्डवेऽपि च न द्वयोः । नित्यन्तु सतते क्लीबं शाश्वते त्रिषु कीर्त्यते ॥ पथ्या स्त्रियां हरीतक्यां हिते पथभवे त्रिषु । पद्यं श्लोके तु शूद्रे ना स्त्रियां पद्या तु वर्त्मनि ॥ पाक्यं विड्लवणे क्लीबं यवक्षारे भवेत्पुमान् ॥ Śabdaratnāvalī 7.26.18
- शब्दरत्नाकर क्षमक्रूरो नृशंसे कुपिते भीषणे कर्कशे त्रिषु । क्षमस्त्रिषु हिते योग्ये युक्ते शक्ते पटावपि ॥ १८९५ ॥ Śabdaratnākara 4.1.1895
- शब्दरत्नाकर परावीप्सायां परितोभागे वर्जनेऽप्यपवत् परि । परा विहीनेऽनावृत्तौ हिते चामन्त्रणेऽद्भुते ॥ २२७३ ॥ Śabdaratnākara 5.2.2273
- त्रिकाण्डशेष आप्तआप्तौ लुब्धहितौ दैर्घ्ये भाविकालेऽपि चाऽयतिः । आचितः शाकटोन्मेयेऽप्यावर्तश्चिन्तनेऽपि च ॥ १४८ ॥ Trikāṇḍaśeṣa 3.3.148
- त्रिकाण्डशेष पथ्यपर्य्यायः स्यात्प्रकारेऽपि प्रायो ना भूयतुल्ययोः । पथ्यं हितेऽभया पथ्या पानीयं पेयनीरयोः ॥ ३१६ ॥ Trikāṇḍaśeṣa 3.3.316
- वैजयन्ती क्षममुख्यान्यकेवलेष्वेकः कष्टौ गहनदुःखितौ । कल्या नीरुग्दक्षसज्जा योग्ययुक्तहिताः क्षमाः ॥ ३ ॥ Vaijayantī 6.4.3