उडुप
uḍupaपुं · masc.In 19 kośas: 22 synonym verses, 6 as a nānārtha head word, 6 as a meaning of another word.
केनिपातः कोटिपात्रमरित्रेऽथोडुपः प्लवः ।कोलो भेलस्तरण्डश्च स्यात्तरपण्यमातरः ॥ ८७९ ॥
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 र (wrong syllable)
genderपुंmasc.
genderक्लीneut.
चक्राणि पुटभेदाः स्युः सेतुर्वरण उच्यते ।आतरस्तरपण्यं च तल्पं स्यादुडुपः प्लवः ॥ ६७१ ॥
अनुष्टुप्
genderपुंmasc.
नौः स्यान्नौका च तरणिस्तरणी च तरिस्तरी ।उडुपः स्यादुडूपोऽपि द्रोणिर्द्रोणी द्रुणिर्द्रुणी ॥ ७२ ॥
अनुष्टुप्
genderपुंmasc.
भेशो हिमरश्मिमालि धिष्णेशस्तारकाप्रभुः ।उडुपो रोहिणीकान्तो द्विजेन्द्रो रोहिणीप्रियः ॥ ६२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 म (wrong syllable)
genderपुंmasc.
तरीः प्लवो भिलो नौका न स्त्रियामुडुपोलुपौ ।आकर्षोऽपि च कर्षुः स्यात्पुनः क्लीबे सुखायनम् ॥ ६० ॥
अनुष्टुप्
genderपुंक्लीm. n.
चापावायस्तूपसूर्यकुणपानां तिपस्य च ।विटपोडुपशष्पाणां मण्डपद्वीपयोरपि ॥ १६९ ॥
अनुष्टुप्
genderपुंक्लीm. n.
तरीस्तरन्ती तरणिस्तरी नौर्वेडा च मङ्गिन्यपि तारणिश्च ।न स्त्री तरण्डोऽप्युडुपश्च पादा-लिन्दी स्त्रियां पुंसि तु कोल-भेलौ ॥ ७० ॥
उपजातिः
genderपुंक्लीm. n.
राजादनमनुमानंभवनं भुवनं च केतनं लोम ।दीपश्चापः स्तूपःशूर्पावापोडुपाः कशिपुः ॥ ५३ ॥
metre not recognised
genderपुंक्लीm. n.
एते शब्दाः पुंसि स्युर्भवेयुरित्यर्थः । शीकरोऽम्बुकणः । तुषारो हिमसन्ततिः । तुषी धान्यबुषः कडङ्गरश्च । बुद्बुदो जलकङ्करः । फेनो जलस्य । समुद्रस्य ओसो अवश्यायः । तण्डुलो धान्यविशेषः । अपूपः पिष्टकस्य । एते शब्दाः स्त्रियामुदिताः कथिताः । इयमालिः पङ्क्तिः । मुक्ता रत्नम् । आजिर्युद्धम् । दर्विर्विभक्तसाधनी । सिकता वालुका ।अजिनाजिरशैवालनलमृणालतुहिनोडुपाज्यसस्यानि । द्वारास्पदकाष्ठानि च नपुंसकान्येव पटलं च ॥ ४७ ॥
metre not recognised
genderक्लीneut.
एते शब्दा नपुंसके भवन्ति । इदमजिनं मृगत्वक् । इदमजिरमङ्गणम् । शैवालं जलसम्भवम् । नलं सुवर्णभाजनम् । मृणालं पद्ममूलम् । तुहिनं तुषारः । उडुपं प्लवः । आज्यं घृतम् । सस्यं व्रीहिः । द्वारं[र] गृहस्य । आस्पदं राज्ञाम् । काष्ठमिन्धनं पटलगृहस्य तिमिरं वा । एवकारोऽवधारणे ।त्रिष्वप्यक्षेष्विन्द्रियसञ्ज्ञका एतान्नपुंसके विद्धि ।शेषाः पुंसि प्रोक्ताः श्रीपिष्टा[ष्ठा]द्याश्च निर्यासाः ॥ ४८ ॥
metre not recognised
genderक्लीneut.
आवापचापसूर्पाणि दीपस्तूपोडुपाः शफः ।कुतपोऽथ डिम्बबिम्बकलभाः ककुभो निभः ॥ १४८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 थ (wrong syllable)
genderपुंक्लीm. n.
तारकैककदारौ तु प्लवः कोलश्चलोऽपि च ।उडुपं च सरामातिदारुसङ्घं तुरे सरत् ॥ ४५ ॥
अनुष्टुप्
genderक्लीneut.
उडुपं तु प्लवः कोलस्तरण्डो मेल इत्यपि ।निर्यामकः कर्णधारो नाविकः पोतवाहकः ॥ १२१ ॥
अनुष्टुप्
genderक्लीneut.
उडुपश्च तरण्डश्च कोलो भेलस्तथा प्लवः ।एतन्नामानि कथ्यन्ते लघुनौ वस्तुनो बुधैः ॥ १४७२ ॥
अनुष्टुप्
genderपुंmasc.
उडुपश्चन्दिरः सिप्रो मृगपिप्लुः सुधानिधिः ।तुङ्गीशो माः पक्षजन्मा चन्दोऽब्धि-नवनीतकः ॥
अनुष्टुप्
genderपुंmasc.
होडो वाधुर्वावटश्च वहित्रं पोत इत्यपि ।भेलकः प्लवकोलाः स्युः उडूपमुडुपस्तथा ॥
अनुष्टुप्
genderपुंmasc.
काष्ठकुद्दालेऽभ्रिरभ्री, प्लवे स्यादुडुवो डुवः ।उडूप उडुपस्तरपण्ये तु तर आतरः ॥ ३२४ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 7 स्त (wrong syllable)
genderपुंmasc.
कर्णं पृष्ठस्थितारित्रमुडुपं प्लवकोलकौ ।यानपात्रं प्रवहणं पोतो भेदे तरण्डकः ॥ ३२८ ॥
अनुष्टुप्
genderक्लीneut.
उडुपः पर्वधिः क्लेदो जयन्तस्तपसो हरिः ।तारापीडः खचमसो विकसः सिन्धुनन्दनः ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
क्लीबे कलत्रविषबीजकुटुम्बरत्नतल्पोक्थकुङ्कुमप्रवीणतृणाक्षराणि ।शृङ्गादपीठगृहभेषजपृष्ठकिण्वदैवाण्डभाण्डचिवुकोडुपसाहसानि ॥ ६ ॥
वसन्ततिलकाmetre not read in every line
genderक्लीneut.
उडुपं तु प्लवो भेल आरोह्योऽसौ तरण्डकः ।केनिपातास्त्वरित्राणि पोलिन्दास्तु पुलिन्दकाः ॥ १६ ॥
अनुष्टुप्
genderक्लीneut.
अर्केऽनले स्यादुषपोऽथ मान-भेदे मुनौ ना कुटपस्तथैव ।स्यान्निष्कुटेऽथो कुतपः स्त्रियां नदिनाष्टमांशे च[26b]कुशे च वाद्ये ।स्यात्कम्बलेऽजस्य पुमांस्तु सूर्येस्वसुश्च पुत्रेऽ प्युलपस्तु न स्त्री ।वीरुद्गतो ना तु मृदौ तृणे स्या-च्चन्द्रे पुमान्स्यादुडुपः प्लवेऽस्त्री ।विटाधिपे ना विटपोऽस्त्रियां तुस्कन्धोर्ध्वशाखासु तरोस्ततौ च ।स्यात्पल्लवे चाथ निशाचरे नास्याद्रक्तपः स्त्री नुवि( ? )पादपस्तु ।स्यात्पादपीठे च तरौ च पुंसिस्त्री पादुकायां महिषे त्वनूपोऽम्बुप्रायदेशे तु विशेष्यलिङ्गः ।स्यात्पूतिगन्धे कुणपः शवेऽस्त्रीन स्त्री तथावाप इहालवाले ॥ १३ ॥
इन्द्रवज्राtwo metres in one versenearly इन्द्रवज्रा: pāda 2, syllable 1 दि (wrong syllable)
हलायुधेन तूक्तं यदुलपा बल्बजा इति ।तत्प्रमादकृतं विद्यादुडुपं तु प्लवे नपि ॥ २४३ ॥
अनुष्टुप्
meaningsप्लव
ना चन्द्रेऽथोटजोऽस्त्री स्यादृषीणां पर्णवेश्यनि ।गृहमात्रेऽप्यु(दि?द)ञ्चस्तु पुमान् वादनदण्डके ॥ २४४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 त्रेऽ (syllables merged)
meaningsचन्द्र
doubtful
आक्षेपो भर्त्सनाकृष्ट्योराकल्पौ वेशकल्पने ।तृणभिद्गुल्मिन्युपलश्चन्द्रे ना स्त्र्युडुपः प्लवे ॥ २७४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ल्मि (wrong syllable)
meaningsप्लव
उडुप as a meaning in nānārtha verses
- धरणिकोश भेलशैलो गिरौ तु शैलं तु शैलेये तार्क्ष्यशैलके । भेलः स्यादुडुपे भीरौ निर्बुद्धिमुनिभेदयोः ॥ Dharaṇikośa 27.2.9
- धरणिकोश कोलकोलः स्यादुडुपः पोत्री कोलः शस्त्रान्तरं स्मृतम् । कोला तु पिप्पली च[95]व्यं कोलं च बदरीफलम् ॥ Dharaṇikośa 27.3.15
- धरणिकोश प्लवप्लवो भेके च चण्डाले प्लवनोडुपयोः प्लवः । क्रमनिम्ने भुवो भागे पक्षिभेदे च मुस्तके ॥ Dharaṇikośa 28.3.4
- नानार्थार्णवसंक्षेप प्लवस्यात् पद्मनालिकायामित्यथ सामान्तरे प्लवः । उडुपे प्लवने मेघे जलपूरेऽप्यथ द्वयोः ॥ ७०४ ॥ Nānārthārṇavasaṃkṣepa 2.5.704
- नानार्थार्णवसंक्षेप भेलपूज्याप्राज्यप्रहीणेषु पुमांस्त्वृष्यन्तरे क्वचित् । चिकित्साग्रन्थकारे स्यादुडुपेऽप्यथ भेकवाक् ॥ ९२० ॥ Nānārthārṇavasaṃkṣepa 2.5.920
- वैजयन्ती भेलबोधिरर्थे सुविज्ञाने कुक्कुटाश्वत्थयोस्तु ना । बालोऽक्ली नीलझिण्ट्यां च भेलौ तूडुपभीरूकौ ॥ ५७ ॥ Vaijayantī 6.5.57