कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Paramānandīyanāmamālā

परमानन्दीयनाममाला Paramānandīyanāmamālā

1,849 verses · 15,356 words tagged · 1,353 marked doubtful (dashed)

अनेकार्थसंग्रहः · तकारादयः

अथ तकारादयो यथा ।

तीर्थं तोये गुरौ यज्ञे शास्त्रे स्त्रीपुष्पपात्रयोः ॥ २१४ ॥
5.15.214 · p. 189
देवतानिलये पुण्यक्षेत्रे योन्यवतारयोः ।त्राणं वीर्ये वने त्रायमाणभेषजनाम च ॥ २१५ ॥
5.15.215 · p. 189
अनुष्टुप्
तर्कः कर्मविशेषे स्याद्विचारेऽपि तथोच्यते ।गीतकर्ममितौ तालस्तालो वृक्षे कराहतौ ॥ २१६ ॥
5.15.216 · p. 189
अनुष्टुप्
हस्तमानेऽप्यथो तालं हरिताले निगद्यते ।तलं सर्गे त्वधोभागे तलस्तालचपेटयोः ॥ २१७ ॥
5.15.217 · p. 189
अनुष्टुप्
तारा सुरगुरोः पत्नी बुद्धसुग्रीवपत्न्यपि ।तारं रूप्ये प्रधानेऽपि तारा नेत्रकनीनिका ॥ २१८ ॥
5.15.218 · p. 190
अनुष्टुप्
नक्षत्रेऽथ मतस्तारः स्वरभेदे च मौक्तिके ।तन्त्रं शास्त्रे वशे वायसाधने सिद्धभेषजे ॥ २१९ ॥
5.15.219 · p. 190
अनुष्टुप्
परिच्छदे प्रधानेऽथ त्रपु सीसकरङ्गयोः ।तन्त्री नाड्यां तथा वीणागुणे त्यागो विसर्जने ॥ २२० ॥
5.15.220 · p. 190
अनुष्टुप्
परित्यागे तुला तूक्ता राशौ [24] सादृश्यभाण्डयोः ।पलानां शतमानेऽथ तमः खेदतमिस्रयोः ॥ २२१ ॥
5.15.221 · p. 190
अनुष्टुप्
राहौ गुणान्तरे चाथ तोकं संतानपुत्रयोः ।तापः कष्टे च संतापे तेजो मोक्षप्रभावयोः ॥ २२२ ॥
5.15.222 · p. 190
अनुष्टुप्
नवनीते बले वह्नौ तीक्ष्णं तिग्मे विषे रणे ।तूणी नील्यां निषङ्गे च तल्पं शय्याकलत्रयोः ॥ २२३ ॥
5.15.223 · p. 190
अनुष्टुप्
वस्त्रे देहे गृहे चाथ तनुः स्वल्पे कृशे त्वचि ।विरले वामने देहे त्रुटिः संशयलेशयोः ॥ २२४ ॥
5.15.224 · p. 190
अनुष्टुप्
कालमानेऽपि रज्जौ स्यात्ततं विपुलवाद्ययोः ।तरो वेगे बले तार्क्ष्यः सूरसूते खगेश्वरे ॥ २२५ ॥
5.15.225 · p. 190
अनुष्टुप्
स्यन्दने घोटके तन्द्रा प्रमादस्वापयोरपि ।त्रेता युगान्तरे वह्नित्रिके त्रय्यपि कथ्यते ॥ २२६ ॥
5.15.226 · p. 191
अनुष्टुप्
तरलस्तु बले हारान्तर्मणौ चपले तथा ।आकाशे त्रिदिवं ख्यातं स्वर्गलोकेऽपि सम्मतम् ॥ २२७ ॥
5.15.227 · p. 191
अनुष्टुप्
तिलकं च ललामे स्याद्रुचके तिलकालके ।क्लोमचित्रकयोश्चाथ तुषारः शीतशीकरौ ॥ २२८ ॥
5.15.228 · p. 191
अनुष्टुप्
तलिमं कुट्टिमे तल्पे विताने तलिमं तथा ।तोदनं पीडने तोत्रे तरसं बलमांसयोः ॥ २२९ ॥
5.15.229 · p. 191
अनुष्टुप्
तक्षको भुजगे तक्ष्णि तरणी रविबेडयोः ।तरुणो नूतने यूनि तारकं नेत्रतारयोः ॥ २३० ॥
5.15.230 · p. 191
अनुष्टुप्
नक्षत्रेऽथासुरे नाविके च तारक उच्यते ।त्रिशङ्कुर्नृपभेदे च बिडाले शलभे तथा ॥ २३१ ॥
5.15.231 · p. 191
अनुष्टुप्
तूलतल्पे शिलाकायां तूलिका चित्रलेखिनी ।तमालः खड्गतापिच्छपुण्ड्रेषु वरुणे पुनः ॥ २३२ ॥
5.15.232 · p. 191
अनुष्टुप्
तुमुलं तु महायुद्धे तुमुलस्तु बिभीतके ।तन्डुरीणः स्मृतः केशे तन्डुलोदककीटयोः ॥ २३३ ॥
5.15.233 · p. 191
अनुष्टुप्
पारगस्तर्तरीकः स्यात्तर्तरीकं वहित्रके ।
5.15.21 · p. 192