नागवल्ली
nāgavallīस्त्री · fem.In 13 kośas: 11 synonym verses, 6 as a meaning of another word.
genderस्त्रीfem.doubtful
ताम्बूलवल्ली तम्बूली नागवल्ल्यप्यथ द्विजा ।हरेणू रेणुका कौन्ती कपिला भस्मगन्धिनी ॥ १२० ॥
अनुष्टुप्
genderस्त्रीfem.
निर्गुण्डी सिन्दुवारः स्यान्मन्दारः पारिभद्रकः ।ताम्बूली नागवल्ली स्याद् गूवाकः पूग उच्यते ॥ २०० ॥
अनुष्टुप्
genderस्त्रीfem.
पूगीफलं वल्लगुणं होसं पत्तनजं च तत् ।नागपर्यायवल्ल्यर्था ताम्बूली भक्षपत्रिका ॥ ३३५ ॥
अनुष्टुप्
genderस्त्रीfem.doubtful
कटुकं कटुकासस्यं तथा कटुफलं च तत् ।कङ्कोलकं पूगफलं लवङ्गं सुमनःफलम् ॥घनसारश्चेति पञ्च सुगन्धि समुदीरितम् ।ताम्बूलवल्ली ताम्बूली नागवल्ली च नागिनी ॥ ९१ ॥
अनुष्टुप्
genderस्त्रीfem.
ऋषिणी द्रोणिका छत्रा चक्षुष्या द्रोणिपुष्पिका ।नागवल्ली तु ताम्बूली तथा ताम्बूलमल्लिका ॥ ५३ ॥
अनुष्टुप्
genderस्त्रीfem.
यावन्ति नागनामानि ततो वल्ली नियोज्यते ।ताम्बूली च तथा प्रोक्ता स्मृता ताम्बूलवल्यसौ ॥ ७८ ॥
अनुष्टुप्
genderस्त्रीfem.doubtful
सप्तशिखा नागवल्ली ताम्बूली भक्षपत्रिका ।गन्धोत्कटो दमनको दण्डी तापसपत्रकः ॥ १८९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 शि (wrong syllable)
genderस्त्रीfem.
ताम्बूली ताम्बूलवल्ली नागपर्यायवल्ल्यपि ।नागवल्ली सर्पवल्ली फणिलताऽपि कथ्यते ॥ २०७० ॥
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 ल (wrong syllable)
genderस्त्रीfem.
अथ पर्णलता नागवल्ली ताम्बूलवल्लिका ।ताम्बूलवल्ली ताम्बूली पर्णवल्ली च ताम्बुलिः ॥
अनुष्टुप्
genderस्त्रीfem.
पारावतपदी पिण्या जीवन्ती स्फुटवल्कली ।नागवल्ली तु तांबूली तथा तांबूलवल्लिका ॥ १४० ॥
अनुष्टुप्
genderस्त्रीfem.
नागवल्ली as a meaning in nānārtha verses
- कोषकल्पतरु ताम्बूलयोषित्त्वम्भः पिप्पलीवाचकं स्या- त्ताम्बूलं स्यान्नागवल्ल्यामथान्त्ये । पूगेऽथ स्यान्नाकुली चव्यरास्ना ख्यायां तद्वत्कुक्कुटीकन्दकेऽपि ॥ ६३ ॥ Koṣakalpataru 6.28.63
- नानार्थार्णवसंक्षेप नागमेघे च नागदन्त्यां च नागवल्ल्यां च कश्चन । अस्त्री तु वङ्गे सीसे च द्वे तु ग्राहाख्ययादसि ॥ ६७७ ॥ Nānārthārṇavasaṃkṣepa 2.5.677
- नानार्थार्णवसंक्षेप कर्पूरीकर्पूरोऽस्त्री चन्द्रसंज्ञगन्धद्रव्ये स्त्रियां पुनः । कर्पूरी नागवल्ल्याख्यवल्लीभेदेऽथ कर्बुरम् ॥ ३७० ॥ Nānārthārṇavasaṃkṣepa 4.370
- नानार्थार्णवसंक्षेप ताम्बूलीरभसस्तूक्तवानेतद् गुवाकफलमात्रके । ताम्बूली तु स्त्रियां नागवल्ल्यां स्यात् स्त्री तु तामसी ॥ ८४९ ॥ Nānārthārṇavasaṃkṣepa 4.849
- शिवकोष ताम्बूलीतण्डुला धान्यनिकरे वेल्ले तण्डुलमस्त्रियाम् । ताम्बूली नागवल्यां च ताम्बूलं क्रमुकीफले ॥ ४६० ॥ Śivakoṣa 23.2.460
- शब्दरत्नावली ताम्बुलीताम्बुली नागवल्ल्यां स्त्री क्लीबं पूगविशेषके । तैतिलो गण्डके पुंस्सि क्लीबञ्च करणान्तरे ॥ Śabdaratnāvalī 7.28.68