कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

पाश्या

pāśyāस्त्री · fem.

In 10 kośas: 11 synonym verses, 1 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1421 · p. 54
पाश्याखल्यादि पाशादेः खलादेः खलिनीनिभाः ॥ १४२१ ॥
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह सङ्कीर्णवर्गः Amarakośa 3.2.42
ग्रामता जनता धूम्या पाश्या गल्या पृथक्पृथक् ॥ ४२ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.255 · p. 48
परिपूर्णत्वमाभोगः कर्णपूरस्तु न स्त्रियाम् ।स्त्रियां पत्राल्लताभङ्गिः पाश्यापि स्याल्ललाटिका ॥ २५५ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव सङ्कीर्णकाण्डः Kalpadrukośa 1.10.89 · p. 244
धूम्या पाश्या तथा गण्या गव्या साहस्रमित्यपि ।कारीषं वार्मणं चाथाथर्वर्णं चापि वार्द्धकम् ॥ ८९ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शूद्रवर्गः Koṣakalpataru 2.4.34 · p. 298
पाशकश्चैव पाशो यस्तथाकर्ष[145b]श्च ईरितः ।आकर्षकस्तत्कुशलः पाश्या स्त्री पाशसंहतौ ॥पाशाकर्षौ बन्ध-वल्गे शुल्ब-शुम्बे बटारकः ।गुणः स्त्रियौ रज्जु-तन्त्र्यौ वटी त्रिष्वथ सा यदि ॥ ३४ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.312 · p. 91
वातूलं वात्यया साकं गोत्रं गव्या गवां चयः ।खल्या च खलिनी पाश्या बन्धुता जनता मता ॥ ३१२ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2581 · p. 416
गवां तु समवाये स्याद् गव्या गोत्रा द्वयं पुनः ।पाश्या च पाशसङ्घाते खल्या खलनरव्रजे ॥ २५८१ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सङ्कीर्णवर्गप्रकाशः Śabdaratnāvalī 6.73 · p. 175
धूमानामपि धूम्या स्यात् जनानां जनतापि च ।पाश्या भवति पाशानां गल्या च गलवृन्दकम् ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्त्रीलिङ्गसङ्ग्रहः Śabdaratnāvalī 9.16 · p. 308
खल्या पाश्या च तृण्या च नज्या च दर्शिता स्त्रियाम् ।स्यात्खलादिभ्य इनवृन्दे खलिनी समुदाहृता ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable); pāda 4, syllable 2 खलि (syllable split)
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण संकीर्णाध्यायः Śabdaratnākara 3.7.1739 · p. 210
ग्रामता जनता गव्या धूम्या पाश्या सहायता ।माणव्यं बन्धुता च स्युर्ग्रामादीनां कदम्बके ॥ १७३९ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश गणाध्यायः Vaijayantī 5.1.14 · p. 187
धूम्या वात्या पाश्या हल्या गल्या नट्या वन्या तृण्या ।पृष्ठ्यं तत्तद्वृन्दे सर्वं पार्श्वं बृन्दे पर्शूनां स्यात् ॥ १४ ॥
metre not recognised
genderस्त्रीfem.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् स्त्रीलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.1.60 · p. 15
निशा रात्रौ हरिद्रायां निन्दा कुत्सापवादयोः ।निधा निधाने पाश्यायां पाश्या पाशकदम्बकम् ॥ ६० ॥
अनुष्टुप्