कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

गोष्ठ

goṣṭhaक्ली · neut.

In 17 kośas: 19 synonym verses, 5 as a nānārtha head word, 9 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पृथ्वीकायः Abhidhānacintāmaṇi 4.1.41 · p. 38
गोस्थानं गोष्ठमेतत्तु गौष्ठीनं भूतपूर्वकम् ।
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह भूमिवर्गः Amarakośa 2.1.13
गोष्ठं गोस्थानकं तत्तु गौष्ठीनं भूतपूर्वकम् ॥ १३ ॥
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.262 · p. 32
व्रजः स्याद्गोकुलं गोष्ठं गोवृन्दं गोधनं धनम् ।गोमान् गोमी च गोस्वामी गोविन्दोऽधिकृतो गवाम् ॥ २६२ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव देशप्रकाण्डः Kalpadrukośa 1.2.38 · p. 8
तथा चाप्रहतं क्लीबे मरुर्धन्वानुभौ नरि ।गोष्ठं गोस्थानकं क्लीबे गौष्ठीनं भूतपूर्वकम् ॥ ३८ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.93 · p. 471
… तथा मोरटघृष्टयोः ।… गोष्ठाण्डतुण्डानां प्रवणस्येरिणस्य च ॥ ९३ ॥
metre not recognised
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ भूकाण्डः Koṣakalpataru 2.51 · p. 117
कर्मान्तः कर्मभूमिः स्याद्यज्ञवाटस्तु यज्ञकः ।वास्तुरस्त्री वेश्मभूमिर्गोष्ठं गोस्थानमीरितम् ॥ ५१ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नपुंसकाधिकारः Koṣakalpataru 4.3.97 · p. 106
चीनपिष्टं च शृङ्गाट स्यात्फाण्टं मोरटं पिटम् ।तिरीटं पृष्ठ-गोष्ठे च क्ष्वेडं धामार्गवार्थकम् ॥ ९७ ॥
अनुष्टुप्
genderक्लीneut.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.248 · p. 40
गुणो वराटो रज्जुः स्त्री नना शुल्बा वटी त्रयम् ।ग्रन्थिर्बन्धो व्रजो गोष्ठं गोष्ठीनं तु पुराव्रजः ॥ २४८ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.251 · p. 36
पर्यन्तभूः परिसरो गोस्थानं गोष्ठमेव च ।गोष्ठीनं भूतपूर्वं च गवीनं चाशितं हि तत् ॥ २५१ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.142 · p. 119
पिण्डीशूरो गृहेशूरो गेहेनर्दी तथोच्यते ।स्वस्थानस्थस्तु गोष्ठः स्यात्परद्वेषी तथापरः ॥ १४२ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास नपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.3.88 · p. 222
बीजं पिञ्जं चोचफाण्टे ललाटंव्युष्टं रिष्टं चीनपिष्टं कृपीटम् ।इष्टं गोष्ठं पृष्ठपिङ्गाणके चत्राणं तीक्ष्णं कार्मणं कारणं च ॥ ८८ ॥
शालिनी
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.6 · p. 25
पुरातने तु गोस्थाने गोष्ठीनं गोष्ठिनं मतम् ।वर्तमाने तु गोस्थाने गोष्ठं गोष्ठश्च गोष्ठकः ॥ ६ ॥
अनुष्टुप्
genderपुंक्लीm. n.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त मनुष्यमरीचिः Pañcatattvaprakāśa 1.1.12 · p. 1
गोस्थानं गोगृहं गोष्ठं शस्त्रशालाऽस्त्रमन्दिरम् ।महानसः पाकशाला देवशालाऽमरालयम् ॥ १२ ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति शूद्रवर्गः Śāradīyākhyanāmamālā 3.4.50 · p. 39
गोकुलं तु व्रजो घोषो गोष्ठं गोपास्तु बल्लवाः ।दुग्धं पयोऽमृतं क्षीरं गोरसः क्षीरजं दधि ॥ ५० ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.1644 · p. 264
गोस्थानं स्यात् तथा गोष्ठं गौष्ठीनं भूतपूर्वकम् ।आशितंगवीनं प्रोक्तं गावो यत्राशिताः पुरा ॥ १६४४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वी (wrong syllable)
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 3.1.20 · p. 47
राजन्वान् सुमहाराजदेशेऽन्यत्र तु राजवान् ।अथ गोष्ठं च गोस्थानं गोस्थानकमपि क्वचित् ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वसुंधराध्यायः Śabdaratnākara 2.1.393 · p. 52
शाद्वलः शादसंछन्ने कुमुद्वान् कुमुदोत्तरे ।त्रिष्वनूपादयो गोष्ठं गोस्थानं पुंसि तु व्रजः ॥ ३९३ ॥
अनुष्टुप्
genderक्लीneut.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव विशेष्यनिघ्नवर्गः Trikāṇḍaśeṣa 3.1.5 · p. 82
स्वस्थानस्थः परान्द्वेष्टि यः स गोष्ठश्च उच्यते ।दाता तु दारुर्मुचिरः स्याद्विदग्धस्तु नागरः ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश शूद्राध्यायः Vaijayantī 3.9.31 · p. 138
ग्रन्थिर्बन्धो व्रजो गोष्ठो गौष्ठीनं तु पुरा व्रजः ।मन्थस्तु मन्था मन्थानो वैशाखः खजकोऽपि च ॥ ३१ ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास ठपादः Dharaṇikośa 11.1.1 · p. 40
श्रेष्ठः कुबेरवरयोः कुष्ठं व्याधिसुगन्धयोः ।गोष्ठं व्रजः सभा गोष्ठी शठो धुस्तूरधूर्तयोः ॥
अनुष्टुप्
meaningsव्रज
कोषकल्पतरु Koṣakalpataru · विश्वनाथ ठान्ताः Koṣakalpataru 6.11.57 · p. 186
कुष्ठं तु रोगेऽपि सुगन्धभेदेगोष्ठी ********* ।संलापसंसत्सु चरमे तु गोस्थले-ऽथाधमेऽप्यसारे च दुष्टः स्यात् ।प्रष्ठः पुरोगामिनि च प्रशस्येचण्डालिकासंज्ञक औषधे स्त्री ।ज्येष्ठोऽतिवृद्धे त्रिषु च प्रशस्येमासे तु ना स्त्री तु भभिन्मुसल्योः ॥ ५७ ॥
इन्द्रवज्राmetre not read in every line
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.375 · p. 74
गोदा तु गोदावर्यां स्त्री गोष्ठः सामान्तरे पुमान् ।गोस्थाने तु नृशण्डोऽथ गोष्ठी तु सदसि स्त्रियाम् ॥ ३७५ ॥
अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास गकारादयः Paramānandīyanāmamālā 5.9.151 · p. 181
गुडस्तु गोलके हस्तिसंनाहेक्षुविकारयोः ।गोष्ठं वने गवां स्थाने गोष्ठी संलापपर्षदोः ॥ १५१ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ठान्ताः Śabdaratnāvalī 7.12.5 · p. 203
कोष्ठः कुशूले स्वीये च जठरावासमद्ययोः ।गोष्ठी संलापसभयोः क्लीबे गोस्थानकेऽपि च ॥
अनुष्टुप्

गोष्ठ as a meaning in nānārtha verses