भर्तृदारक
bhartṛdārakaपुं · masc.In 13 kośas: 11 synonym verses, 1 as a nānārtha head word, 1 as a meaning of another word.
भावो विद्वान्युवराजः कुमारो भर्तृदारकः ॥ ३३२ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
भगिनीपतिरावुत्तो भावो विद्वानथावुकः ।जनको युवराजस्तु कुमारो भर्तृदारकः ॥ १२ ॥
अनुष्टुप्
genderपुंmasc.
कोणो वादनदण्डः स्याद्भेरी दुन्दुभिरिष्यते ।नाट्ये राज्ञी स्मृता देवी कुमारो भर्तृदारकः ॥ ९८ ॥
अनुष्टुप्
genderपुंmasc.
भर्तृदारक इत्युक्ते पतिस्त्वार्यः प्रकीर्तितः ।आर्यपुत्रस्तु पूज्यः स्यादार्यकस्तु पिता च सः ॥ १५२ ॥
अनुष्टुप्
genderपुंmasc.
राजा भट्टारको देवः कुमारो भर्तृदारकः ।भर्तृदारिका तत्सुता स्याज्ज्येष्ठा भग्न्यन्तिकापि च ॥ ८४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
युवराजो राजपुत्रः कुमारो भर्तृदारकः ।राज्ञः श्यालो राष्ट्रियः स्यात्तत्सुता भर्तृदारिका ॥ ४७ ॥
अनुष्टुप्
genderपुंmasc.
युवराजे कुमारः स्याद्भर्तृदारक इत्यपि ।राज्ञि देवो देवद(र?)श्च तत्सुता भर्तृदारिका ॥ १५८ ॥
अनुष्टुप्
genderपुंmasc.
भगिनी स्वामिनी प्रौक्ता भावो विद्वान् हि कथ्यते ।युवराजः कुमारश्च स्याद्भर्तृदारकस्तथा ॥ ४८८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्तृ (wrong syllable)
genderपुंmasc.
युवराजद्वयं नाम कुमारो भर्तृदारकः ।राज्ञो नाम द्वयं नाट्ये देवो भट्टारकोऽपि च ॥
अनुष्टुप्
genderपुंmasc.
गणिकानुचरैरज्जुकेति नाम्ना नृपेण सा ।युवराजस्तु सर्वेण कुमारो भर्तृदारकः ॥
अनुष्टुप्
genderपुंmasc.
तनयस्त्वस्य गोस्वामी (स्वामी) चाप्यथ राष्ट्रियः ।स्यालोऽस्य युवराजस्तु कुमारो भर्त्तृदारकः ॥ १०५ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.doubtful
बाणभेदे तु विज्ञेयो ना द्वापञ्चाशदङ्गुले ।नाट्योक्तौ युवराजे स्यात् पुल्लिँङ्गो भर्तृदारकः ॥ ७३ ॥
अनुष्टुप्
meaningsयुवराज
भर्तृदारक as a meaning in nānārtha verses
- त्रिकाण्डशेष कुमारबालके कार्त्तिकेये च कुमारो भर्तृदारके । कलिकारस्तु धूम्याटे करञ्जे पीतमस्तके ॥ ३३८ ॥ Trikāṇḍaśeṣa 3.3.338