भूपाल
bhūpālaपुं · masc.In 8 kośas: 5 synonym verses, 10 as a meaning of another word.
प्रजापतिः क्षितिपतिर्नरदेवो नराधिपः ।भूपः क्षितीशो भूपालः क्षोणीनाथो नरेश्वरः ॥ ८ ॥
अनुष्टुप्
genderपुंmasc.
भूभृत् भूपश्च भूपालो लोकपालश्च पार्थिवः ।मूर्धाभिषिक्तमूर्धावसिक्तौ राजा च राट् तथा ॥ ११२२ ॥
अनुष्टुप्
genderपुंmasc.
राजन्यो नरपतिः पार्थः पार्थिवो नृपतिर्नृपः ।भूपो महीक्षिद्भूपाली भूभृत्क्ष्मभुक् महीपतिः ॥
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 त्क्ष्म (wrong syllable)
genderपुंmasc.
नाभिनाराट् च भूमीन्द्रो नरेन्द्रो नायकोऽधिपः ।प्रणताश्रेषसामन्तो भूपालः स्यादधीश्वरः ॥
अनुष्टुप्
genderपुंmasc.
गेन्दुकोऽपि कन्दुके द्वौ, पार्थिवे नृपतिर्नृपः ।भूप-भूपति-भूपालास्तथा मूर्ध्नाभिषिक्तयुक् ॥ २३७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 पि (wrong syllable)
genderपुंmasc.
भूपाल as a meaning in nānārtha verses
- धरणिकोश मूर्धाभिषिक्तमूर्धाभिषिक्तो भूपाले प्रधाने क्षत्रियेऽपि च । यादसांपतिरम्भोधिः प्रचेता यादसांपतिः ॥ Dharaṇikośa 15.2.86
- कोषकल्पतरु स्कन्धआमोदलेलीतकलेशगर्व- संबन्धहिंसास्वपि पुंसि गन्धः । स्कन्धः प्र[8a]काण्डव्रजबाहुमूल- भूपालकायप्रधनांशकेषु ॥ ५७ ॥ Koṣakalpataru 6.20.57
- नानार्थार्णवसंक्षेप भोगवत्भूपालेऽप्यथ भौमो ना पृथिवीतनयग्रहे । भूमिसम्बन्धिनि त्रि स्याद् मद्रं तु क्ली सुखे तथा ॥ ९२६ ॥ Nānārthārṇavasaṃkṣepa 2.5.926
- नानार्थार्णवसंक्षेप सङ्घातकसंहन्तरि च भूपाले पुनः संयद्वरः पुमान् । नपुंसकं तु सङ्ग्रामे त्रि तु स्यादभयप्रदे ॥ ६३६ ॥ Nānārthārṇavasaṃkṣepa 6.636
- परमानन्दीयनाममाला अम्बरीषअनूचानो विवेकज्ञे वेदज्ञे ध्यानकारके । अम्बरीषो बुधे सूर्ये भूपाले बालघोटके ॥ ४७ ॥ Paramānandīyanāmamālā 5.1.47
- शब्दरत्नावली प्रजापतिपरिस्तुता स्याद्वारुण्यां स्त्रियां स्यन्देऽभिधेयवत् । पञ्चगुप्तः कच्छपे स्याच्चार्वाकदर्शने पुमान् ॥ प्रजापतिर्ना भूपाले दक्षादौ च विधातरि । प्रतिपत्तिश्च संप्राप्तौ प्रबोधे गोरवेऽपि च ॥ Śabdaratnāvalī 7.16.168
- शब्दरत्नावली मूर्धाभिषिक्तगिरिकर्णी जया दुर्गाशनपर्ण्यपराजिता । विधूपितासन्नमृत्योस्तप्ते स्यादुपधूपितः ॥ शङ्करेऽपिच हेरम्बे गणाधिपतिरित्यपि । पतनेच्छौ विहङ्गे च भवेत्पिपतिषन्निति ॥ ऋषभौषधिभेदे स्यान्नृपतौ पृथिवीपतिः । भूपाले मन्त्रिणि क्षत्रे मूर्धाभिषिक्त इत्यपि ॥ अम्भोनिधौ च वरुणे स्यात्पुमान् यादसांपतिः । रागभेदपिकाम्रेषु वसन्तदूत इत्यपि ॥ पाटलीमाधवीवल्ल्योर्वसन्तदूत्यपि स्त्रियाम् । Śabdaratnāvalī 7.16.178
- शब्दरत्नावली पुष्करक्लीबं ना पक्षिभूपालरोगद्वीपाद्रिभित्सु च । तथा वरुणपुत्रे च क्वचित्केचिप्रचक्षते ॥ Śabdaratnāvalī 7.27.90
- शब्दरत्नावली जयपालगन्धफली तु गुन्द्रायां स्त्रियां चम्पककोरके । चक्रवालो मण्डले स्याद्गिरिभेदे भवेत्पुमान् ॥ जलाञ्चलं शैवले स्यात्स्वतोवारिविनिर्गमे । जयपालो विधौ विष्णौ भूपाले वृक्षभिद्यपि ॥ जम्बूमालाऽप्सरोभेदे कपिभूधरयोः पुमान् । दलामलो मरुवके दमने मदनद्रुमे ॥ Śabdaratnāvalī 7.28.107
- शब्दरत्नावली वसुप्रसूर्मातरि कन्दल्यामश्वायां विरुधि स्त्रियाम् । वसुरत्ने धने क्लीबं दीप्तौ वृद्ध्यौषधे स्त्रियाम् । नाग्नौ देवे बके श्यामे योक्तभूपालसाधुषु ॥ Śabdaratnāvalī 7.32.5