कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

अधिप

adhipaपुं · masc.

In 14 kośas: 14 synonym verses, 2 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.26 · p. 18
दरिद्रो दुर्विधो दुःस्थो दुर्गतो निःस्वकीकटौ ।अकिंचनोऽधिपस्त्वीशो नेता परिवृढोऽधिभूः ॥ ३५८ ॥पतीन्द्रस्वामिनाथार्याः प्रभुर्भर्तेश्वरो विभुः ।ईशितेनो नायकश्च नियोज्यः परिचारकः ॥ ३५९ ॥डिङ्गरः किंकरो भृत्यश्चेटो गोप्यः पराचितः ।दासः प्रेष्यः परिस्कन्दो भुजिष्यपरिकर्मिणौ ॥ ३६० ॥परान्नः परिपिण्डादः परजातः परैधितः ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह विशेष्यनिघ्नवर्गः Amarakośa 3.1.17
इभ्य आढ्यो धनी स्वामी त्वीश्वरः पतिरीशिता ॥ १० ॥अधिभूर्नायको नेता प्रभुः परिवृढोऽधिपः ।
अनुष्टुप्
genderविadj.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.343 · p. 41
अर्यः परिवृढः स्वामी प्रभुर्नेता च नायकः ।अधिभूरधिपः प्रोक्तो ह्यधीशोऽधिपतिस्तथा ॥ ३४३ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव विशेष्यनिघ्नकाण्डः Kalpadrukośa 1.9.19 · p. 216
नेताधिपः परिवृढोऽधिकर्द्धिस्तु समृद्धकः ।डिङ्गरः किङ्करो भृत्यो दासः प्रेष्यः पराचितः ॥ १९ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.36 · p. 4
भर्ता भरण्डो नेतार्यः प्रभुः परिवृढोऽधि[160b]पः ।अधिभूर्नायको नाथः स्वामीन्द्रो विभ्विनौ प्रभुः ॥ ३६ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 10 · p. 5
राजाधिपः पतिः स्वामी नाथः परिवृढः प्रभुः ।ईश्वरो विभुरीशानो भर्तेन्द्र इन ईशिता ॥ १० ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.639 · p. 109
अधिभूर्नायके पुंसि नेता परिवृढोऽधिपः ।अधिकर्धिः समृद्धः स्यादीश्वरे पतिरीशिता ॥ ६३९ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति राजवर्गः Śāradīyākhyanāmamālā 3.2.10 · p. 35
नाथः प्रभुः पतिः स्वामी विभुः परिवृढोऽधिपः ।ईश्वरो नायको नेता भर्तेन्द्र इन ईशिता ॥ १० ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.531 · p. 67
अथ स्वामी विभुः भर्ताः परिवृढः प्रभुः पतिः ।अधिपश्चाऽधिभूरर्यो नेता नाथश्च नायकः ॥ ५३१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 वृ (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.129 · p. 120
नाभिनाराट् च भूमीन्द्रो नरेन्द्रो नायकोऽधिपः ।प्रणताश्रेषसामन्तो भूपालः स्यादधीश्वरः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश प्राणिवर्गप्रकाशः Śabdaratnāvalī 4.1.13 · p. 159
अधिभूरधिपो नेता पालकः पतिरीशिता ।अधिकर्धिः समृद्धः स्यादतिसम्पत्तिशालिनि ॥
अनुष्टुप्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण विशेष्यनिघ्नाध्यायः Śabdaratnākara 3.6.1592 · p. 192
इभ्यस्त्वाढ्यो धनी स्यात् परिवृढ इन ईशोऽधिभूः स्वास्यधीशो ।नेता नाथोऽधिपोऽपि प्रभुरथ बहुदः स्थूललक्षो वदान्यः ॥ १५९२ ॥
स्रग्धरा
genderविadj.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव क्षत्त्रियवर्गः Trikāṇḍaśeṣa 2.8.1 · p. 61
द्विजलिङ्गी नृपः क्षत्रः क्षत्रियोऽथ प्रजेश्वरः ।राजाधिपौ मण्डलेश एकजन्मा भयापहः ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 5.4.58 · p. 205
अधिभूरधिपोऽधीश ईशिताधिपतिः पतिः ।ईशः परिबृढः स्वामी स्थूललक्षो बहुव्यये ॥ ५८ ॥
अनुष्टुप्
genderविadj.

अधिप as a meaning in nānārtha verses