प्राची
prācīस्त्री · fem.In 15 kośas: 14 synonym verses, 1 as a nānārtha head word, 4 as a meaning of another word.
पूर्वा प्राची दक्षिणापाची प्रतीची तु पश्चिमा ।अपराथोत्तरोदीची विदिक्चोपदिशं प्रदिक् ॥ १६७ ॥
अनुष्टुप्
genderस्त्रीfem.
दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः ।प्राच्यवाचीप्रतीच्यस्ताः पूर्वदक्षिणपश्चिमाः ॥ १ ॥उत्तरा दिगुदीची स्याद्दिश्यं तु त्रिषु दिग्भवे ।अवाग्भवमवाचीनमुदीचीनमुदग्भवम् ॥प्रत्यग्भवं प्रतीचीनं प्राचीनं प्राग्भवं त्रिषु ।इन्द्रो वह्निः पितृपतिर्नैरृतो वरुणो मरुत् ॥ २ ॥कुबेरः ईशः पतयः पूर्वादीनां दिशां क्रमात् ।
अनुष्टुप्
genderस्त्रीfem.
ऐन्द्री पूर्वा प्राची याम्या दिग्दक्षिणा तथाऽवाची ।स्याद्वारुणी प्रतीची कौवेरी चोत्तरोदीची ॥ १०१ ॥
metre not recognised
genderस्त्रीfem.
कौबेर्यादिषु तूदीची प्राच्यवाची प्रतीच्यपि ।ब्राह्मी तूर्ध्वा धनाग्निः स्यान्नारकी चाथ रार्कुटा ॥ ३५ ॥
अनुष्टुप्
genderस्त्रीfem.
राशेस्त्रिंशन्मितोभागस्त्रिंशांशो विबुधै स्मृतः ।पूर्वा प्राची तथैवैंद्री सुरेशदिशिरुच्चते ॥ १०३ ॥
अनुष्टुप्
genderस्त्रीfem.
वारिर्वारी च प्राची च प्रारब्धिश्च स्त्रियामिमाः ।गात्रबन्धे तु त्रिपदी चैकस्मिन्नपरेऽपि च ॥ १७३ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 च (wrong syllable); pāda 3, syllable 5 तु (wrong syllable)
genderस्त्रीfem.
सूर्यपर्यायोदयार्था प्राची पूर्वा च मङ्गला ।दक्षिणावाच्यपाची च पश्चिमा तु प्रतीच्यपि ॥ ४९ ॥
अनुष्टुप्
genderस्त्रीfem.
ऐन्द्री प्राची पूर्वा दक्षिणपूर्वा तथाग्नेयी ।याम्या त्वगस्तिपूताऽपाची स्याद्दक्षिणाऽवाची ॥ २२ ॥
metre not recognised
genderस्त्रीfem.
दिक्काष्टाशा ककुप्पूर्वा प्राच्यपाची तु दक्षिणा ।पश्चिमा च प्रतीची स्यादुत्तरा त्वपरा स्मृता ॥ १५९ ॥
अनुष्टुप्
genderस्त्रीfem.
ऐन्द्री प्राची पूर्वककुबुदीची हरिदुत्तरा ।पूर्वयाम्यान्तराग्नेयी वायवीयाऽवमातिका? ॥ ३३६ ॥
अनुष्टुप्
genderस्त्रीfem.
दिक पूर्वा तु तथा प्राची स्यादऽपरेतरा तथा ।दक्षिणा तु अवाची स्यादपाची चोत्तरेतरा ॥ १७४ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
ऐन्द्री प्राची दिगाग्नेयी चिराशा दिक् तु दक्षिणा ।अवाची नैर्ऋताशा स्यादन्धकी वारुणी तु दिक् ॥ १५३ ॥
अनुष्टुप्
genderस्त्रीfem.
प्राची तु शृङ्खला हिञ्जीरोऽस्त्री स्यादन्दुकश्च सः ।पित्तज्वरः पाकलोऽस्य कूटपूर्वस्त्रिदोषजः ॥ ४० ॥
अनुष्टुप्
genderस्त्रीfem.
मारुत्यनन्ता शार्वी तु शालाक्षाप्यपराजिता ।कौबेर्यादिषु तूदीची प्राच्यवाची प्रतीच्यपि ॥ ५ ॥
अनुष्टुप्
genderस्त्रीfem.
प्राग्भवे प्राङ् मुखे चैव प्राची तु स्त्री हरेर्दिशि ।प्रथमापञ्चमीसप्तम्यर्थेष्वव्यय एव वा ॥ १४ ॥
अनुष्टुप्
meaningsपूर्वदिश्
प्राची as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् पुरस्तात्प्राच्यां पुरस्तात्प्रथमे पुरार्थेऽग्रत इत्यपि । Amarakośa 3.3.480
- धरणिकोश पुरस्तात्यावत्तावत्परिच्छेदे कार्त्स्न्ये मानेऽवधारणे । पुरस्ताच्चतुर्षु प्राच्यां पुरार्थे प्रथमेऽग्रतः ॥ Dharaṇikośa 34.7.6
- कोषकल्पतरु पुरस्तात्प्राच्यां पुरोऽर्थे प्रथमे पुरस्तादग्रतोर्थके । स्वस्ति मङ्गलपुण्याशीःसुखाङ्गीकरणार्थकम् ॥ ९१ ॥ Koṣakalpataru 5.1.91
- शब्दरत्नाकर पुरस्भागे प्रकारकथने वीप्सायां लक्षणे प्रति । प्राच्यां पुरस्तात्प्रथमे पुरार्थेऽग्रे पुरः स्मृतः ॥ २२७२ ॥ Śabdaratnākara 5.2.2272