अवाची
avācīस्त्री · fem.In 11 kośas: 11 synonym verses, 2 as a meaning of another word.
दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः ।प्राच्यवाचीप्रतीच्यस्ताः पूर्वदक्षिणपश्चिमाः ॥ १ ॥उत्तरा दिगुदीची स्याद्दिश्यं तु त्रिषु दिग्भवे ।अवाग्भवमवाचीनमुदीचीनमुदग्भवम् ॥प्रत्यग्भवं प्रतीचीनं प्राचीनं प्राग्भवं त्रिषु ।इन्द्रो वह्निः पितृपतिर्नैरृतो वरुणो मरुत् ॥ २ ॥कुबेरः ईशः पतयः पूर्वादीनां दिशां क्रमात् ।
अनुष्टुप्
genderस्त्रीfem.
ऐन्द्री पूर्वा प्राची याम्या दिग्दक्षिणा तथाऽवाची ।स्याद्वारुणी प्रतीची कौवेरी चोत्तरोदीची ॥ १०१ ॥
metre not recognised
genderस्त्रीfem.
कौबेर्यादिषु तूदीची प्राच्यवाची प्रतीच्यपि ।ब्राह्मी तूर्ध्वा धनाग्निः स्यान्नारकी चाथ रार्कुटा ॥ ३५ ॥
अनुष्टुप्
genderस्त्रीfem.
स्त्रियामवाची तद्भेदेऽप्यथ संहार इत्ययम् ।संघातः कालसूत्रं च तत्र सत्त्वास्तुनारकाः ॥ २ ॥
अनुष्टुप्
genderस्त्रीfem.
सूर्यपर्यायोदयार्था प्राची पूर्वा च मङ्गला ।दक्षिणावाच्यपाची च पश्चिमा तु प्रतीच्यपि ॥ ४९ ॥
अनुष्टुप्
genderस्त्रीfem.
ऐन्द्री प्राची पूर्वा दक्षिणपूर्वा तथाग्नेयी ।याम्या त्वगस्तिपूताऽपाची स्याद्दक्षिणाऽवाची ॥ २२ ॥
metre not recognised
genderस्त्रीfem.
अवाची दक्षिणा याम्यां प्रतीची पश्चिमास्तदिक् ।ऐशी पूर्वोत्तरान्तर्द्दिक् नैरृती राक्षसार्चिता ॥ ३३७ ॥
अनुष्टुप्
genderस्त्रीfem.
दिक पूर्वा तु तथा प्राची स्यादऽपरेतरा तथा ।दक्षिणा तु अवाची स्यादपाची चोत्तरेतरा ॥ १७४ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
आशायां दिग्-दिशे काष्ठा त्रिकवर्गद्वितीयभाक् ।ककुभा ककुब्याम्याशाऽपाच्यवाची दिगन्तरे ॥ ५७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 कु (wrong syllable)
genderस्त्रीfem.
ऐन्द्री प्राची दिगाग्नेयी चिराशा दिक् तु दक्षिणा ।अवाची नैर्ऋताशा स्यादन्धकी वारुणी तु दिक् ॥ १५३ ॥
अनुष्टुप्
genderस्त्रीfem.
मारुत्यनन्ता शार्वी तु शालाक्षाप्यपराजिता ।कौबेर्यादिषु तूदीची प्राच्यवाची प्रतीच्यपि ॥ ५ ॥
अनुष्टुप्
genderस्त्रीfem.
अवाची as a meaning in nānārtha verses
- शब्दरत्नावली याम्यायाम्याभरण्यवाच्योश्च याम्योऽगस्त्ये च चन्दने । रम्यं त्रिषु मनोज्ञे स्याद्रात्रौ स्त्री चम्पके पुमान् ॥ Śabdaratnāvalī 7.26.28
- शब्दरत्नावली पुरस्तात्अहो बतानुकम्पायां खेदे सम्बोधनेऽपि च । पुरस्तात्प्रथमेऽवाच्यामग्रे चाल्पपुरार्थयोः ॥ Śabdaratnāvalī 8.1.33