प्रतीची
pratīcīस्त्री · fem.In 15 kośas: 12 synonym verses, 1 as a nānārtha head word, 6 as a meaning of another word.
पूर्वा प्राची दक्षिणापाची प्रतीची तु पश्चिमा ।अपराथोत्तरोदीची विदिक्चोपदिशं प्रदिक् ॥ १६७ ॥
अनुष्टुप्
genderस्त्रीfem.
दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः ।प्राच्यवाचीप्रतीच्यस्ताः पूर्वदक्षिणपश्चिमाः ॥ १ ॥उत्तरा दिगुदीची स्याद्दिश्यं तु त्रिषु दिग्भवे ।अवाग्भवमवाचीनमुदीचीनमुदग्भवम् ॥प्रत्यग्भवं प्रतीचीनं प्राचीनं प्राग्भवं त्रिषु ।इन्द्रो वह्निः पितृपतिर्नैरृतो वरुणो मरुत् ॥ २ ॥कुबेरः ईशः पतयः पूर्वादीनां दिशां क्रमात् ।
अनुष्टुप्
genderस्त्रीfem.
ऐन्द्री पूर्वा प्राची याम्या दिग्दक्षिणा तथाऽवाची ।स्याद्वारुणी प्रतीची कौवेरी चोत्तरोदीची ॥ १०१ ॥
metre not recognised
genderस्त्रीfem.
कौबेर्यादिषु तूदीची प्राच्यवाची प्रतीच्यपि ।ब्राह्मी तूर्ध्वा धनाग्निः स्यान्नारकी चाथ रार्कुटा ॥ ३५ ॥
अनुष्टुप्
genderस्त्रीfem.
पश्चिमा वारुणी प्रोक्ता प्रतीची स्याद्दिशा जला ।वायव्याऽनिला मारुता च सौम्योदीची तथोत्तरा ॥ १०५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderस्त्रीfem.
सूर्यपर्यायोदयार्था प्राची पूर्वा च मङ्गला ।दक्षिणावाच्यपाची च पश्चिमा तु प्रतीच्यपि ॥ ४९ ॥
अनुष्टुप्
genderस्त्रीfem.
स्यान्नैर्ऋती दक्षिणपश्चिमाह्वास्यात्पश्चिमा या वारुणी शिहयेत् [?] प्रतीची ।सामीरणी तूत्तरपश्चिमा स्यात्कौबेर्युदीची च तथोत्तरा स्यात् ॥ २३ ॥
इन्द्रवज्राmetre not read in every line
genderस्त्रीfem.
दिक्काष्टाशा ककुप्पूर्वा प्राच्यपाची तु दक्षिणा ।पश्चिमा च प्रतीची स्यादुत्तरा त्वपरा स्मृता ॥ १५९ ॥
अनुष्टुप्
genderस्त्रीfem.
अवाची दक्षिणा याम्यां प्रतीची पश्चिमास्तदिक् ।ऐशी पूर्वोत्तरान्तर्द्दिक् नैरृती राक्षसार्चिता ॥ ३३७ ॥
अनुष्टुप्
genderस्त्रीfem.
प्रतीची पश्चिमा तु स्याद् पूर्वेतरा तथैव च ।उदीची तूत्तरा दिक् च स्यादऽपाचीतरा तथा ॥ १७५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त (wrong syllable)
genderस्त्रीfem.
प्रतीची मारुताशा स्यादनन्ता हरिदुत्तरा ।उदीची शांभवी काष्ठा शालाक्षाप्यपराजिता ॥ १५४ ॥
अनुष्टुप्
genderस्त्रीfem.
मारुत्यनन्ता शार्वी तु शालाक्षाप्यपराजिता ।कौबेर्यादिषु तूदीची प्राच्यवाची प्रतीच्यपि ॥ ५ ॥
अनुष्टुप्
genderस्त्रीfem.
प्रतीची as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् पश्चात्प्रतीच्यां चरमे पश्चादुताप्यर्थविकल्पयोः । Amarakośa 3.3.474
- धरणिकोश वारुणीकारणं घातने हेतावीरिणं शून्यमूषरम् । वारुणी सुराप्रतीच्योः सरणिः पङ्क्तिमार्गयोः ॥ Dharaṇikośa 14.1.8
- धरणिकोश पश्चात्उत्प्रश्ने च वितर्के स्यादुताप्यर्थविकल्पयोः । पश्चादनन्तरार्थे स्यात्प्रतीच्यां चरमेऽपि च ॥ Dharaṇikośa 34.7.5
- कोषकल्पतरु पश्चात्प्रतीच्यां चरमे पश्चात् नेत् विचारे समुच्चये । शङ्कायां प्रतिषेधेऽथ सहार्थेऽपि सकृत्स्मृतम् ॥ ८१ ॥ Koṣakalpataru 5.1.81
- नानार्थार्णवसंक्षेप वारुणीउमायां च प्रतीच्यां च सुरायां च लतान्तरे । भेद्यलिङ्गं तु वरुणसम्बन्धिन्यथ वारिजम् ॥ १६६३ ॥ Nānārthārṇavasaṃkṣepa 4.1663
- शब्दरत्नावली पश्चात्आराद्दूरे समीपे च तथाभ्यन्तरगाढयोः । स्यात्कच्चिन्मङ्गले प्रश्ने हर्षे कामप्रवेदने ॥ पश्चात्प्रतीच्याञ्चरमे त्वधिकारे च दृश्यते । यदुत्प्रश्ने वितर्के च प्रकारार्थोपमानयोः ॥ Śabdaratnāvalī 8.1.28