मानिनी
māninīस्त्री · fem.In 10 kośas: 9 synonym verses, 1 as a nānārtha head word.
विशेषास्त्वङ्गना भीरुः कामिनी वामलोचना ।प्रमदा मानिनी कान्ता ललना च नितम्बिनी ॥ ३ ॥सुन्दरी रमणी रामा कोपना सैव भामिनी ।
अनुष्टुप्
genderस्त्रीfem.
कन्दालुः कन्दबहुला साम्लवल्ली विषापहा ।लक्ष्मणा पुत्रकन्दा स्यात् पुत्रदा मानिनी च सा ॥ ४२९ ॥
अनुष्टुप्
genderस्त्रीfem.
तद्विशेषा स्वनामानुरूपार्था भीरुरङ्गना ।कामिनी मानिनी कान्ता ललना वामलोचना ॥ ७ ॥
अनुष्टुप्
genderस्त्रीfem.
भार्या जाया जनिः कुल्या कलत्रं गेहिनी गृहम् ।महिला मानिनी पत्नी तथा दाराः पुरन्ध्रयः ॥ ३२ ॥
अनुष्टुप्
genderस्त्रीfem.
नारायणी विशालाक्षी भार्गवी विजया जया ।अदितिर्मानिनी गौरी मातङ्गी महिला शिवा ॥ ६० ॥
अनुष्टुप्
genderस्त्रीfem.
वामा तनूदरी श्यामा योषित् पत्नी प्रियाऽबला ।महिला मानिनी भार्य्या बाला प्रणयिनी गृहम् ॥ ३८ ॥
अनुष्टुप्
genderस्त्रीfem.
अङ्गना मानिनी योषिद्वर्णिनी वामलोचना ।बाला सीमन्तिनी भीरुः सुन्दरी युवती वशा ॥ ३ ॥
अनुष्टुप्
genderस्त्रीfem.
लीलावती स्मरवती मानिनी नाम जायते ।मनोविलासवत्यादि नाम काव्ये समीरितम् ॥ ७९४ ॥
अनुष्टुप्
genderस्त्रीfem.
मानिनी हंसिनी चौला कलना भू(धू)मिनीति च ।आदिदेवेन निर्दिष्टाः प्रथमाधिपशक्तयः ॥
अनुष्टुप्
genderस्त्रीfem.
मार्जनो लोध्रवृक्षे स्यात्क्लीबं मार्ष्टौ तु मार्जनम् ।मानिनी तु स्त्रियां फल्यां मानी मानवति त्रिषु ॥मैथुनं सङ्गते क्लीबं सुरते च नपुंसकम् ।यमनो ना यमे क्लीबं बन्धे चोपरतावपि ॥यवनो जातिभिद्देशभिदोर्वेगाश्वयोरपि ।यवन्योषधिभेदे स्त्री वेगिनि त्वभिधेयवत् ॥यापनं स्यान्निरसने कालक्षेपे च वर्त्तने ।युवा श्रेष्ठे च तरुणे निसर्गबलसंयुते ॥योजनं स्याच्चतुष्क्रोश्यां योगमाने परात्मनि ।रसनं स्वादने शब्दे स्याद्रास्नाजिह्वयोः स्त्रियाम् ॥
अनुष्टुप्
meaningsफली