कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

भार्या

bhāryāस्त्री · fem.

In 14 kośas: 13 synonym verses, 1 as a nānārtha head word, 15 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.513 · p. 23
सुवासिनी वधूटी स्याच्चिरिण्ट्यथ सधर्मिणी ।पत्नी सहचरी पाणिगृहीती गृहिणी गृहाः ॥ ५१२ ॥दारा क्षेत्रं वधूर्भार्या जनी जाया परिग्रहः ।द्वितीयोढा कलत्रं च पुरंध्री तु कुटुम्बिनी ॥ ५१३ ॥
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.6
पत्नी पाणिगृहीती च द्वितीया सहधर्मिणी ॥ ५ ॥भार्या जायाऽथ पुंभूम्नि दाराः स्यात्तु कुटुम्बिनी ।पुरन्ध्री सुचरित्रा तु सती साध्वी पतिव्रता ॥ ६ ॥
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.494 · p. 56
दाराः क्षेत्रं कलत्रं च भार्या सहचरी वधूः ।सधर्मचारिणी पत्नी जाया च गृहिणी गृहाः ॥ ४९४ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.44 · p. 25
भार्या दाराः पुंसि भूम्नि स्यादेकत्वे स्त्रियामियम् ।पत्नी पाणिगृहीती च पुरन्ध्रिश्च पुरन्ध्र्यपि ।अन्या पाणिगृहीता स्यात् द्वितीया सहधर्मिणी ॥ ४४ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.13 · p. 203
भार्या जाया च गृहिणी द्वितीयोढा जनी वधूः ।क्षेत्रं परिग्रहो भूम्नि दाराः पुंसि गृहा गृहम् ॥ १३ ॥
अनुष्टुप्
genderस्त्रीfem.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 32 · p. 16
भार्या जाया जनिः कुल्या कलत्रं गेहिनी गृहम् ।महिला मानिनी पत्नी तथा दाराः पुरन्ध्रयः ॥ ३२ ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.179 · p. 123
भार्या सहचरी जाया वधूः क्षेत्रं परिग्रहः ।सधर्मिणी जनी जानिः गृहिणी च तथोच्यते ॥ १७९ ॥
अनुष्टुप्
genderस्त्रीfem.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति अङ्गवर्गः Śāradīyākhyanāmamālā 2.1.8 · p. 20
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.803 · p. 116
सधर्मचारिणी भार्या द्वितीया सहधर्मिणी ।ऊढा क्षेत्रं कलत्रं च करात्ती गृहिणी जनी ॥ ८०३ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.118 · p. 91
कृताभिषेका राजस्त्री महिष्यन्या च भोगिनी ।पत्नी सधर्मिणी भार्या द्वितीया सहधर्मिणी ।जाया पाणिगृहीती च धर्मचारिण्यपि क्वचित् ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्त्रीलिङ्गसङ्ग्रहः Śabdaratnāvalī 9.42 · p. 311
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1036 · p. 129
अपांसुला सुचारित्रा भामिनी कोपना समे ।कुलपालिका कुलस्त्री भार्या पत्नी सधर्मिणी जाया ॥ १०३६ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.34 · p. 175
समानोदर्यसोदर्यौ सगर्भः सोदरः समाः ।भार्या जाया सहचरी द्वितीया सहधर्मिणी ॥ ३४ ॥
अनुष्टुप्
genderस्त्रीfem.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.898 · p. 119
दीयते यत्र भागोऽसौ तत्र तत्रापि साधुनि ।भार्या स्त्री सहधर्मिण्यां ना त्वादिक्षत्त्रियान्तरे ॥ ८९८ ॥
अनुष्टुप्

भार्या as a meaning in nānārtha verses