कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

हिंस्र

hiṃsraवि · adj.

In 12 kośas: 12 synonym verses, 3 as a nānārtha head word, 13 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.369 · p. 18
महेच्छे तूद्भटोदारोदात्तोदीर्णमहाशयाः ।महामना महात्मा च कृपणस्तु मितंपचः ॥ ३६७ ॥कीनाशस्तद्धनक्षुद्रकदर्यदृढमुष्टयः ।किंपचानो दयालुस्तु कृपालुः करुणापरः ॥ ३६८ ॥सूरतोऽथ दया शूकः कारुण्यं करुणा घृणा ।कृपानुकम्पानुक्रोशो हिंस्रे शरारुघातुकौ ॥ ३६९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श (wrong syllable)
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह विशेष्यनिघ्नवर्गः Amarakośa 3.1.28
शरारुर्घातुको हिंस्रः स्याद्वर्धिष्णुस्तु वर्द्धनः ॥ २८ ॥
अनुष्टुप्
genderविadj.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.372 · p. 44
शरारुर्घातको हिंस्रो नृशंसः क्रूरकर्मकृत् ।साधुः सज्जन आर्यः स्याद्गृहमेधी गृहाधिपः ॥ ३७२ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव विशेष्यनिघ्नकाण्डः Kalpadrukośa 1.9.62 · p. 221
क्षमावांश्चापि शक्तः स्यादथ रोचिष्णुरोचनौ ।शरारुर्घातुको हिंस्रो रुष्टेऽमर्षणरोषणौ ॥ ६२ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.52 · p. 6
संनद्धस्त्वाततायी स्याच्छस्त्राद्यैर्यो वधोद्यतः ।शरारुर्घातुको हिंस्रो दशेरः शीर्वि-मीवरौ ॥ ५२ ॥
अनुष्टुप्
genderविadj.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.103 · p. 21
हिंस्रो व्याघ्रादिको व्यालः श्वापदो मरुलः शिरिः ।मनुष्या मानवा मर्त्या मनुजा मानुषा नराः ॥ १०३ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.36 · p. 106
अनुक्रोशोऽथ हिंस्रे स्याच्छरारुर्घातकोऽपि सः ।[58]व्यापादनं विशसनं हिंसा निर्वासनं वधः ॥ ३६ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश प्राणिवर्गप्रकाशः Śabdaratnāvalī 4.1.34 · p. 161
अभिवादस्तु वन्दारुरभिवादयितापि च ।घातुको हिंसको हिंस्रः शरारुरपि हन्तरि ॥
अनुष्टुप्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण क्षत्रियाध्यायः Śabdaratnākara 3.3.1373 · p. 166
शूरस्तु वीरविक्रान्तौ जितकाशी जिताहवः ।घातकनृशंसहिंस्रव्यापादकशरारुघातुकक्रूराः ॥ १३७३ ॥
अनुष्टुप्metre not read in every line
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण विशेष्यनिघ्नाध्यायः Śabdaratnākara 3.6.1658 · p. 199
कुट्टाकरछेदकश्छेत्ता शरारुर्हिंस्रघातुकौ ।पूतः पवित्रः प्रयतः पुण्यो मेध्यश्च शुद्धवत् ॥ १६५८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश पशुसङ्ग्रहाध्यायः Vaijayantī 3.4.73 · p. 71
बाले तु बर्करः सूता तूबरः शृंगवर्जितः ।हिंस्रो व्याघ्रादिको व्यालः श्वापदो मरुलः शरिः ॥ ७३ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 5.4.42 · p. 204
उत्पतिष्णुस्तूत्पतिता रोचिष्णू रोचनः समौ ।स्थास्नुस्तु स्थायुकः स्थायी शरारुर्हिंस्रघातुकौ ॥ ४२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्तू (wrong syllable)
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ रान्ताः Koṣakalpataru 6.27.81 · p. 314
यात्रा गतौ यापनदेवपूजो-त्सवेऽथ हिंस्रस्त्रिषु घातुके स्यात् ।काकादनीमांसिकयोः स्त्रियां स्यात्धीरोऽसुरे ना त्रिषु धैर्यभाजि ॥ ८१ ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1594 · p. 178
त्रि पथ्ये धारिते दत्ते हरीतक्यां तु सा हिता ।स्त्री क्ली तु धारणे दानेऽप्यथ हिंस्रस्त्रि घातके ॥ १५९४ ॥
अनुष्टुप्
meaningsघातक
शब्दरत्नावली Śabdaratnāvalī · मथुरेश रेफान्ताः Śabdaratnāvalī 7.27.51 · p. 268
हिंस्रा त्वेलावलीमांस्योः स्त्रियां स्यात्त्रिषु घातुके ।हीरो ना शङ्करे वज्रे हीरा लक्ष्मयम्बुतैलयोः ॥होरा स्त्री शास्त्रभेदे स्याल्लग्ने राश्यर्द्धरेखयोः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्

हिंस्र as a meaning in nānārtha verses

  • नामलिङ्गानुशासनम् बीभत्सविद्वान्विदंश्च बीभत्सो हिंस्रोऽप्यतिशयेत्वमी ॥ २३५ ॥ Amarakośa 3.3.235
  • धरणिकोश व्याडअण्डं पेश्यां च मुष्के च खण्डौ काननगोपती । पण्डः क्लीबे मतिः पण्डा व्याडः पन्नगहिंस्रयोः ॥ Dharaṇikośa 12.1.1
  • कोषकल्पतरु घस्रषण्ढे तथा चाश्रुणि दस्र आद्ये खरेऽश्विनोर्वासरहिंस्रयोस्तु । घस्रोऽथ वाश्रोऽह्नि खरे पिके च चतुष्पथेऽन्त्ये सदने तथैव । स्त्री प्रस्नुतायां गवि शब्दवत्या- मुस्रो वृषे स्यात्किरणे च पुंसि ॥ ५९ ॥ Koṣakalpataru 6.27.59
  • कोषकल्पतरु शार्वरहिंस्रे वाच्यसमोऽन्तिमे तु विपिने स्याद्दूरशून्येऽध्वनि क्लीबे प्रान्तरमत्र कोटरगतं दुग्धस्य फेने तु ना । देशे शर्करयान्विते तु परवत्प्रोक्तो बुधैः शार्करो- ऽथोक्ष्णि स्यान्नरि शाक्वरो निगदितं छन्दोविशेषेऽन्तिमे ॥ ३७ ॥ Koṣakalpataru 6.27.37
  • कोषकल्पतरु ललजिह्वललजिह्वः शुनि हिंस्रे क्रमेलके स्त्री तु दूर्वायाम् । भार्गवनार्यामपि शतपर्वा स्यात्तु पञ्चाङ्गे ॥ ३८ ॥ Koṣakalpataru 6.29.38
  • नानार्थार्णवसंक्षेप ऋजुऋश्यः पुंस्यृषिभेदे स्यान्मृगजात्यन्तरे द्वयोः । ऋजुस्त्रिर्नायकेऽर्थे ना हिंस्रे त्वृष्वो महत्यपि ॥ ११७ ॥ Nānārthārṇavasaṃkṣepa 2.5.117
  • नानार्थार्णवसंक्षेप पर्विपर्विः काके द्वयोर्हिंस्रे पुनस्त्रिषु पतिस्तु ना । पाणिग्राहे च पततिधातौ चाथाजयोऽब्रवीत् ॥ ७२५ ॥ Nānārthārṇavasaṃkṣepa 2.5.725
  • नानार्थार्णवसंक्षेप काणकत्रिः कश्मीरनिवासे च कश्मीरभिजनेऽपि च । काणकस्त्रिषु हिंस्रे स्यात् क्लीबं त्वक्षिमले विदुः ॥ ४५८ ॥ Nānārthārṇavasaṃkṣepa 4.458
  • नानार्थार्णवसंक्षेप कृदरआलोचने तु त्रिर्ना तु कृदरः खदिरे सिते । केचित्तु हिंस्रे त्रिष्वाहुः कृषकस्तु पुमानयम् ॥ ५७१ ॥ Nānārthārṇavasaṃkṣepa 4.571
  • शब्दरत्नावली ललजिह्वललजिह्वः पुमानुष्ट्रशुनो हिंस्रेऽपि चान्यवत् । शतपर्वा वचायान्तु दूर्वायां भार्गव स्त्रियाम् ॥ Śabdaratnāvalī 7.23.17
  • शब्दरत्नावली घस्रत्रिलिङ्गं दुर्जरेत्यर्थे महत्यलघुनीत्यपि । गोत्रं कुलास्ययोर्गोत्रः शैले कुगव्ययोः स्त्रियाम् ॥ सम्भावनीयबोधे च विपिनच्छत्रवर्त्मसु । गौरं श्वेतेऽरुणे पीते विशुद्धेऽप्यभिधेयवत् ॥ क्लीबं पद्मकेशरे स्याच्चन्द्रसर्षपयोः पुमान् । गौरीभवानीवसुधाप्रियङ्गुरोचनासु च ॥ असञ्जातरजः कन्या वरुणाणी नदीषु च । घोरो भीमे महेशे च घस्त्रो दिवसहिंस्रयोः ॥ चरश्चारे द्यूतभेदे भौमे च जङ्गमे गमे । चन्द्रः सुधांशुकाम्पिल्लकर्पूरे काञ्चने जले ॥ चक्रमस्त्रे व्रजे सैन्ये रथाङ्गे राष्ट्रदम्भयोः ॥ Śabdaratnāvalī 7.27.10
  • शब्दरत्नावली फेरवअथोत्तरपदस्थोऽपि श्रेष्ठवाची भवेदयम् । फेरवो जम्बुके धूर्ते हिंस्रे च क्षणदाचरे ॥ माधवो यादवे विष्णौ मधुवैशाखयोरपि । माधवी स्यान्मधुरिकावासन्तीशर्करासु च ॥ राजीवं कमले क्लीबं स्यात्पुंसि मृगनीलयोः । राघवो रघुनाथे स्याबृहन्मत्स्यविशेषके ॥ रौरवाश्चञ्चले धूर्ते घोरे च नरकान्तरे । वडवा कुम्भदास्यश्वाब्राह्मणकामिनीषु च ॥ Śabdaratnāvalī 7.29.33
  • वैजयन्ती शार्वरयमेऽपि शमनो ध्वान्ते क्ली हिंस्त्रे त्रिषु शार्वरः । करञ्जभेदे षट्ग्रन्थः षट्ग्रन्था ग्रन्थिकं वचा ॥ ८७ ॥ Vaijayantī 7.5.87