विच्छित्ति
vicchittiस्त्री · fem.In 10 kośas: 11 synonym verses, 4 as a nānārtha head word, 1 as a meaning of another word.
स्वगुणेनोपमानेन मनोज्ञादिपदेन च ॥ ५०५ ॥विशेषिताङ्गकर्मा स्त्री यथा तरललोचना ।अलसेक्षणा मृगाक्षी मत्तेभगमनापि च ॥ ५०६ ॥वामाक्षी सुस्मितास्याः स्वं मानलीलास्मरादयः ।लीला विलासो विच्छित्तिर्विव्वोकः किलकिञ्चितम् ॥ ५०७ ॥मोट्टायितं कुट्टमितं ललितं विहृतं तथा ।विभ्रमश्चेत्यलंकाराः स्त्रीणां स्वाभाविका दश ॥ ५०८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 क्ष (wrong syllable)
genderस्त्रीfem.
वामाक्षी सुस्मितास्याः स्वं मानलीलास्मितादयः ।लीला विलासो विच्छित्तिर्विव्वोकः किलकिञ्चितम् ॥ १२ ॥
अनुष्टुप्
genderस्त्रीfem.
लीला विलासो विच्छित्तिर्बिब्बोकः किलकिञ्चितम् ।मोट्टायितं कुट्टमितं विभ्रमो ललितं मदः ॥ १७३ ॥
अनुष्टुप्
genderस्त्रीfem.
स्तोकाप्याकल्परचना विच्छित्तिः कान्तिपोषकृत् ।विब्बोकस्त्वतिगर्वेण वस्तुनीष्टेऽप्यनादरः ॥ १८२ ॥
अनुष्टुप्
genderस्त्रीfem.
विच्छित्तिः स्त्रीसमालम्भश्चर्चा चर्चिक्यमित्यपि ।पत्रलेखा पत्रभङ्गिर्मकरी पत्रवल्लिका ॥ १० ॥
अनुष्टुप्
genderस्त्रीfem.
सुस्मितास्या धनं लीलामानादिः स्यादनेकधा ।विच्छित्तिश्च विलासोऽपि विव्वोको लीलया सह ॥ १७३ ॥
अनुष्टुप्
genderस्त्रीfem.
विलासो ललितो लोला विभ्रमो विहृतं तथा ।विव्वोकश्चापि विब्बोको विच्छित्तिः किलिकिञ्चितम् ॥ ७९५ ॥
अनुष्टुप्
genderस्त्रीfem.
प्रेयसः संगसमये दृष्टिभ्रूवक्त्रकर्मणाम् ।विशेषो यो विलासः स्याद्विच्छित्तिस्तु स्वमण्डने ॥ १०२४ ॥
अनुष्टुप्
genderस्त्रीfem.
सौभ्रात्रं भ्रातृता साध्वी त्रिषु स्युर्जरठादयः ।अनुलेपोऽङ्गरागः स्याद्विच्छित्तिर्वर्णकोऽस्त्रियाम् ॥ ११४५ ॥
अनुष्टुप्
genderस्त्रीfem.
वेधको मालयस्तु स्याच्छ्रीखण्डो रौहिणश्च सः ।विच्छित्तिस्तु कषायः स्यात्समालम्भनमित्यपि ॥ ४० ॥
अनुष्टुप्
genderस्त्रीfem.
वल्लभानुकृतिर्लीला विलासः श्लिष्टविक्रिया ।विच्छित्तिर्वस्त्रमाल्यादेर्न्यासोऽनास्थोपशोभितः ॥ ९३ ॥
अनुष्टुप्
genderस्त्रीfem.
स्याद्विच्छित्तिस्तु विच्छेदे भावभेदे च योषिताम् ।स चायं वस्त्रमाल्यादेर्न्याऽनास्थोपशोभितः ॥ ८७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
विच्छित्ति as a meaning in nānārtha verses
- नानार्थार्णवसंक्षेप भङ्गिभङ्गिर्भङ्गेऽप्याकृतौ च विच्छित्तौ चाथ भाषणे । भाषा लौकिकवाक्ये चाभियोगवचने गिरि ॥ ७४ ॥ Nānārthārṇavasaṃkṣepa 2.1.74