कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

ललित

lalitaक्ली · neut.

In 12 kośas: 14 synonym verses, 4 as a nānārtha head word, 1 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.508 · p. 23
स्वगुणेनोपमानेन मनोज्ञादिपदेन च ॥ ५०५ ॥विशेषिताङ्गकर्मा स्त्री यथा तरललोचना ।अलसेक्षणा मृगाक्षी मत्तेभगमनापि च ॥ ५०६ ॥वामाक्षी सुस्मितास्याः स्वं मानलीलास्मरादयः ।लीला विलासो विच्छित्तिर्विव्वोकः किलकिञ्चितम् ॥ ५०७ ॥मोट्टायितं कुट्टमितं ललितं विहृतं तथा ।विभ्रमश्चेत्यलंकाराः स्त्रीणां स्वाभाविका दश ॥ ५०८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 क्ष (wrong syllable)
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नाट्यवर्गः Amarakośa 1.7.45
स्त्रीणां विलासबिब्बोकविभ्रमा ललितं तथा ॥ ३१ ॥हेला लीलेत्यमी हावाः क्रियाः शृङ्गारभावजाः ।
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.89 · p. 11
हेलाविलासविब्बोकलीलाललितविभ्रमाः ।स्त्रीणां शृङ्गारचेष्टाः स्युर्हावपर्यायवाचकाः ॥ ८९ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.13 · p. 21
मोट्टायितं कुट्टमितं ललितं विहृतं तथा ।विभ्रमश्चेत्यलंकाराः स्त्रीणां स्वाभाविका दश ॥ १३ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव विशेष्यनिघ्नकाण्डः Kalpadrukośa 1.9.128 · p. 228
प्रेङ्खोलितस्तरलितो ललितः प्रेङ्खितः पुनः ।अरालं वृजिनं जिह्ममूर्मिमन्नतमित्यपि ॥ १२८ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.31 · p. 420
तिलको ललितश्चामी ध्रुवाः स्युरिह षोडश ।उद्गाहे स्यात्पदद्वन्द्वं मध्ये कार्यं पदद्वयम् ॥ ३१ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.123 · p. 430
बालाकुचोत्सेधदत्तनखे पुंसि वराटकः ।स्त्रीणां विलासविव्वोकविभ्रमा ललितं तथा ॥ १२३ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नाट्यवर्गः Koṣakalpataru 1.6.173 · p. 94
लीला विलासो विच्छित्तिर्बिब्बोकः किलकिञ्चितम् ।मोट्टायितं कुट्टमितं विभ्रमो ललितं मदः ॥ १७३ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नाट्यवर्गः Koṣakalpataru 1.6.187 · p. 95
अस्थाने भूषणादीनां विन्यासो विभ्रमो भवेत् ।सुकुमारतयाङ्गानां विन्यासो ललितं मतम् ॥ १८७ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.174 · p. 123
किलिकिञ्चितसंज्ञं च ललितं कुट्टिमं समे ।मोट्टायितं तु विहृतं विभ्रमोऽपि निगद्यते ॥ १७४ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.795 · p. 114
विलासो ललितो लोला विभ्रमो विहृतं तथा ।विव्वोकश्चापि विब्बोको विच्छित्तिः किलिकिञ्चितम् ॥ ७९५ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.488 · p. 34
कौतुकं कुतूकं चित्रं कौतूहलः कुतूहलम् ।अथ विभ्रम-विव्वोक-विलासाललितं तथा ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण नाट्याध्यायः Śabdaratnākara 2.8.1028 · p. 128
सुकुमारोऽङ्गविन्यासः सभ्रूनेत्राधरक्रियः ।ललितं विहृतं तु स्यात् प्राप्तकालमनुत्तरम् ॥ १०२८ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश शूद्राध्यायः Vaijayantī 3.9.96 · p. 143
स्तनोष्ठादेर्दृढस्पर्शात् (दुःखवत्) सुखसंभ्रमः ।विभ्रमो दृग्विपर्यासो ललितं कोमलक्रमः ॥ ९६ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ तान्ताः Koṣakalpataru 6.16.83 · p. 217
ललितं हारविभेदे विभ्रमभेदे तथा[292b]भीष्टे ।स्खलितं भ्रेषे छलिते कलितं ज्ञाते तथा प्राप्ते ॥ ८३ ॥
metre not recognised
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1557 · p. 183
ललितं हारभेदे क्ली लसितेऽथ त्रिरीप्सिते ।लङ्गनं तु गतौ क्लीबं लङ्गनी तु स्त्रियामियम् ॥ १५५७ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश तान्ताः Śabdaratnāvalī 7.16.130 · p. 222
ललितं हारभेदे स्याच्चलितेप्सियोस्त्रिषु ।लोहितो तद्भिद्भौमरक्तेषु त्रिषु तद्वति ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 4 त (syllables merged)
शब्दार्णव Śabdārṇava · वाचस्पति Śabdārṇava 201 · p. 541
ना भावभेदे स्त्री नृत्ये ललितं त्रिषु सुन्दरे ।अस्त्रियां प्रमदागारे क्रीडिते जातपल्लवे ॥ २०१ ॥
अनुष्टुप्

ललित as a meaning in nānārtha verses