कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Rabhasakośa

रभसकोश Rabhasakośa

445 verses · text only, tagging comes next

कान्ताः · कपञ्चकम्

रभसकोषः

त्रिलिङ्गोऽनेडमूकः स्याच्छठे वाक्श्रुतिवर्जिते ।त्रिषूपकर्तर्युपकारिका स्त्री नृपमन्दिरे ॥ १ ॥
1.1.1 · p. 32
अनुष्टुप्
अर्कपर्णेऽपि मन्दारे देवद्रौ पारिभद्रकः ।मृगेषु वन्यपशुषु धूर्तको मृगधूर्तकः ॥ २ ॥
1.1.2 · p. 32
अनुष्टुप्
भवेदशोकरोहिण्यां शाकाम्ले रक्तवर्णिका ।उत्कलिका तु हेलायां तरंगोत्कण्ठयोरपि ॥ ३ ॥
1.1.3 · p. 32
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 लि (wrong syllable)