All kośas › Rabhasakośa
रभसकोश Rabhasakośa
445 verses · text only, tagging comes next
शान्ताः · शद्विकम्
-------- आशुः स्याच्छालिशीघ्रयोः ।प्रभुशंकरयोरीशः स्त्रियां लाङ्गलदण्डके ॥ ३४१ ॥
26.3.341 · p. 143
अनुष्टुप्metre not read in every line
वाराणस्यां भवेत् काशी क्षवथौ न तृणेऽस्त्रियाम् ।दर्शोऽमाऽमावसी च स्यात् -------- ॥ ३४२ ॥
26.3.342 · p. 143
अनुष्टुप्metre not read in every line
दशा वर्ताववस्थायां वस्त्रान्ते भूम्नि पुंस्त्रियोः ।पशुर्मृगादौ छगले प्रमथे च पुमानयम् ॥ ३४३ ॥
26.3.343 · p. 144
अनुष्टुप्
नेपथ्ये गृहमात्रे च वेशो वेश्यागृहेऽपि च ।रुजायां स्पर्शके स्पर्शो दानस्पर्शनयोरपि ॥ ३४४ ॥
26.3.344 · p. 145
अनुष्टुप्
स्पृशी प्रचोदनी राष्ट्रा कण्टकारी निदिग्धिका ।
26.3.5 · p. 145