कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Rabhasakośa

रभसकोश Rabhasakośa

445 verses · text only, tagging comes next

रान्ताः · रद्विकम्

अश्रु स्यादस्रु नेत्राम्बु -------- ॥ २६७ ॥
23.4.267 · p. 120
स्याच्चापायुधयोरस्त्रम् -------- ।करो वर्षोपले रश्मौ पाणौ प्रत्यायशुण्डयोः ॥ २६८ ॥
23.4.268 · p. 120
अनुष्टुप्metre not read in every line
क्रूरस्तु कठिने घोरे नृशंसेऽप्यभिधेयवत् ।क्षेत्रं शरीरे केदारे सिद्धस्थानकलत्रयोः ॥ २६९ ॥
23.4.269 · p. 120
अनुष्टुप्
देवताडे खरा तीक्ष्णे त्रिषु स्याद्गर्दभे पुमान् ।द्वौ पूर्वपश्चाज्जङ्घादिदेशौ गात्रावरे न ना ॥ २७० ॥
23.4.270 · p. 120
अनुष्टुप्
नग्नकन्योमयोर्गौरी रजन्यां सरिदन्तरे ।प्रियङ्गौ वसुधायां च रोचन्यां वरुणस्त्रियाम् ॥ २७१ ॥
23.4.271 · p. 121
अनुष्टुप्
पुंसीन्दौ विशदे श्वेतसर्षपे पद्मकेसरे ।नपुंसकं त्रिषु श्वेते विशुद्धेऽरुणपीतयोः ॥ २७२ ॥
23.4.272 · p. 121
अनुष्टुप्
चक्रः कोके व्रजे पुंसि क्लीबं सैन्यरथाङ्गयोः ।राष्ट्रे दम्भान्तरे कुम्भकारोपकरणास्त्रयोः ॥ २७३ ॥
23.4.273 · p. 121
अनुष्टुप्
चन्द्रः कर्पूरकाम्पिल्लसुधांशुस्वर्णवारिषु ।अलेख्याश्चर्ययोः क्लीबं चित्रं स्यात्तिलकेऽपि च ॥ २७४ ॥
23.4.274 · p. 122
अनुष्टुप्
स्रवन्त्यां भे सुभद्रायां चित्रा स्त्री कर्बुरे त्रिषु ।आतपत्रं मतं छत्रं छत्रा मधुरिका मता ॥ २७५ ॥
23.4.275 · p. 122
अनुष्टुप्
अतिच्छत्रोऽपि च्छत्रा स्याच्छत्रा धान्यकमप्यथ ।सुगन्धाख्यं च कटुकं छत्रातिछत्रकं तथा ॥ २७६ ॥
23.4.276 · p. 122
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पि (wrong syllable)
-------- तरं वज्रविघातयोः ।हस्तिमस्तकदन्ते च दंष्ट्रा शुनवराहयोः ॥ २७७ ॥
23.4.277 · p. 122
अनुष्टुप्metre not read in every line
-------- गर्ते भीतौ दरोऽस्त्रियाम् ।धात्री जनन्यामलकीवसुमत्युपमातृषु ॥ २७८ ॥
23.4.278 · p. 123
अनुष्टुप्metre not read in every line
धारा वाजिगतिः प्रोक्ता धारा आसार इत्यपि ।पूः स्त्री नपुंसि नगरी खपुरं तूर्ध्वगं पुरम् ॥ २७९ ॥
23.4.279 · p. 123
अनुष्टुप्
हरिश्चन्द्रपुरं शौभं पत्तनं पुटभेदनम् ।पुरं नपुंसकं गेहे देहपाटलिपुत्रयोः ॥ २८० ॥
23.4.280 · p. 123
अनुष्टुप्
पुष्पादीनां दलावृत्तौ गुग्गुलौ ना न ना पुरि ।पोत्रं वस्त्रे मुखाग्रे च सूकरस्य हलस्य च ॥ २८१ ॥
23.4.281 · p. 123
अनुष्टुप्
विशाले नकुले विष्णौ बभ्रुर्ना पिङ्गले त्रिषु ।-------- भीरुरार्ते जने स्त्रियाम् ॥ २८२ ॥
23.4.282 · p. 123
अनुष्टुप्metre not read in every line
वेदभेदे गुप्तिवादे मन्त्रो दैवादिसाधने ।मरं त्वसत्ये छिन्ने च प्रीतिवैचित्र्ययोरपि ॥ २८३ ॥
23.4.283 · p. 124
अनुष्टुप्
-------- अथ मारिर्मसूरिका ।मारी भवानी वाराही कुटिलाक्षी पृथुश्रिया ॥ २८४ ॥
23.4.284 · p. 124
अनुष्टुप्metre not read in every line
रमा कालन्त्तिका वेणी पूलाका विजयाऽपि च ।वज्रोऽशनिर्गिरीकण्टः पविर्दम्भोलिरम्बुजम् ॥ २८५ ॥
23.4.285 · p. 124
अनुष्टुप्
वरो जामातरि वृतौ देवताडेरभीप्सिते ।कुङ्कुमो च मनागिष्टे क्लीबं श्रेष्ठे च वाच्यवत् ॥ २८६ ॥
23.4.286 · p. 124
अनुष्टुप्
वारी स्त्री गजबन्धिन्यां वारि क्लीबे जलेऽपि च ।शक्रः सुदर्शने देवे देवेन्द्रे भाग्यवज्जने ॥ २८७ ॥
23.4.287 · p. 124
अनुष्टुप्
गुन्द्रेष्वोर्ना शरं नीरे -------- ।-------- शारः शबलवातयोः ॥ २८८ ॥
23.4.288 · p. 125
अनुष्टुप्
पुंलिङ्गः शाकमात्रे स्याच्छिग्रुः शोभाञ्जनेऽपि च ।शिरो ना पिप्पलीमूले स्याद्धमन्यां तु योषिति ॥ २८९ ॥
23.4.289 · p. 125
अनुष्टुप्
शुभ्रं स्यादभ्रके क्लीबं उद्दीप्तशुक्लयोस्त्रिषु ।सत्त्रं यज्ञे सदादानाऽऽच्छादनाऽरण्यकैतवे ॥ २९० ॥
23.4.290 · p. 126
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प्त (wrong syllable)
हलतिग्मकरौ सीरौ -------- ।हारा मुक्तावली हारः -------- ॥ २९१ ॥
23.4.291 · p. 126
metre not recognised