All kośas › Rabhasakośa
रभसकोश Rabhasakośa
445 verses · text only, tagging comes next
णान्ताः · णद्विकम्
क्षणो व्यापारशून्यत्वमुहूर्तोत्सवपर्वसु ।गणो वृन्दे सैन्यभेदे प्रमथेषु प्रयुज्यते ॥ ८३ ॥
11.3.83 · p. 61
अनुष्टुप्
द्रोणः कृपीपतौ कृष्णकाके स्याद् ---- ।प्रत्यासारे पुमान् पार्ष्णिः पादग्रन्थ्यधरेऽपि च ॥ ८४ ॥
11.3.84 · p. 61
अनुष्टुप्metre not read in every line
वाणिः स्त्री व्यूतिभारत्योः -------- ।देवताडेऽपि वेणी स्यात् प्रवेण्यामपि योषिति ॥ ८५ ॥
11.3.85 · p. 62
अनुष्टुप्metre not read in every line
स्वर्णेभसर्पाख्यो नागकेसरः षट्पदप्रियः ।
11.3.4 · p. 62