कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Rabhasakośa

रभसकोश Rabhasakośa

445 verses · text only, tagging comes next

नान्ताः · नचतुष्कम्

अधिविन्नाऽध्युपगताऽध्यूढा कृतसपत्निका ॥ १३६ ॥
16.2.136 · p. 80
आच्छादनं संपिधाने वस्त्रेऽप्यावृतिमात्रके ।आराधनं च पचने प्राप्तौ संतोषणेऽपि च ॥ १३७ ॥
16.2.137 · p. 80
अनुष्टुप्
आम्रातके शिरीषे च गर्दभाण्डे कपीतनः ।कुचन्दनं च पत्राङ्गे द्रुभेदे रक्तचन्दने ॥ १३८ ॥
16.2.138 · p. 80
अनुष्टुप्
चुलुकी शिंशुमारेऽस्त्री कुण्डभेदे कुलान्तरे ।तपस्विनी जटी मांसी जटिला लोमशा मिसी ॥ १३९ ॥
16.2.139 · p. 80
अनुष्टुप्
तुत्थाञ्जनं क्वाथोद्भवं कर्परीदार्विके स्त्रियौ ।स्याद्दीर्घकोषिकायां स्त्री दुर्नामा क्लीबमर्शसि ॥ १४० ॥
16.2.140 · p. 81
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 थो (wrong syllable)
पत्राञ्जनं मसिर्नाऽपि मसिर्लिपिप्रयोजने ।प्रतियत्नपरिस्पन्दौ पुमांसौ रचना स्त्रियाम् ॥ १४१ ॥
16.2.141 · p. 81
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्लि (wrong syllable)
-------- मुसली हलतालभृत् ।ललाम च ललामं च भूषावालधिवाजिषु ॥ १४२ ॥
16.2.142 · p. 81
अनुष्टुप्metre not read in every line
चिह्नप्रधानपुण्ड्रेषु प्रभावे ध्वजशृङ्गयोः ।लाङ्गली नारिकेलेऽपि सीरपाणौ च लाङ्गली ॥ १४३ ॥
16.2.143 · p. 81
अनुष्टुप्
खातोदको दाक्षिणात्यः सुतङ्गः कूर्चकेसरः ।मेखलायां सारसनमुरस्त्रे च तनुत्रिणाम् ॥ १४४ ॥
16.2.144 · p. 82
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 सा (wrong syllable)