All kośas › Rabhasakośa
रभसकोश Rabhasakośa
445 verses · text only, tagging comes next
टान्ताः · टचतुष्कम्
आरकूटोऽस्त्रियां द्रव्यं रीतिस्तु रीतिकोमलम् ॥ ५२ ॥
7.1.52 · p. 48
कर्करेटुः करेटुः स्यात् करटुः कर्कराटुकः ।पादस्फोटोऽथ त्वक्पुष्पी किलासं सिध्म सिध्मली ॥ ५३ ॥
7.1.53 · p. 48
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 थ (wrong syllable)
लतायष्टिर्हेमपुष्पी भण्डीरीति च भण्डिरी ।क्लीबं शुभेऽशुभे तक्रे सूत्यगारान्तचिह्नयोः ॥ ५४ ॥
7.1.54 · p. 48
अनुष्टुप्
अरिष्टं लशुने काके निम्बफेनिलवृक्षयोः ।नान्दिश्राद्धे दर्दरूटे करटः कटकाकयोः ॥ ५५ ॥
7.1.55 · p. 49
अनुष्टुप्
चिपिटः स्याच्चिपुटकः -------- ।स्याद्वारललनायां च व्रीहिभेदे च बर्बटी ॥ ५६ ॥
7.1.56 · p. 49
अनुष्टुप्metre not read in every line
भावाटस्तु त्रिषु ज्ञेयो भावके कामुकेऽपि च ।ना तु साधुनिवेशे स्यात् -------- ॥ ५७ ॥
7.1.57 · p. 50
अनुष्टुप्metre not read in every line
---- अथ भ्रकुटिर्भ्रुकुटिर्भ्रूकुटिः स्त्रियाम् ।शैलाटस्तु द्वयोः सिंहे किराते च पुमान् पुनः ॥ ५८ ॥
7.1.58 · p. 50
अनुष्टुप्metre not read in every line
देवले शुक्लकाचे च -------- ।
7.1.8 · p. 50