All kośas › Rabhasakośa
रभसकोश Rabhasakośa
445 verses · text only, tagging comes next
थान्ताः · थचतुष्कम्
महापथं राजमार्गे धाट्यां च नरकेऽपि च ।नृजातिभेदे कायस्थः कायस्थः परमात्मनि ॥ ११८ ॥
13.1.118 · p. 73
अनुष्टुप्
कायस्था तु हरीतक्यामामलक्यां प्रकीर्तिता ।वयःस्था युवतिर्ज्ञेया वयस्था शाल्मलिद्रुमे ॥ ११९ ॥
13.1.119 · p. 74
अनुष्टुप्
ब्राह्मीगुडूचीककोलीसूक्ष्मेलाऽऽमलकीसु च ।सत्पथस्तु सुपन्थाः स्याद्व्यध्वो विपथकापथौ ॥ १२० ॥
13.1.120 · p. 74
अनुष्टुप्
क्वाथः कषायो निर्यूषे निर्यासे वेष्टकस्तथा ।तुत्थं स्यादमृतासङ्गं कर्परी तुन्नमित्यपि ॥ १२१ ॥
13.1.121 · p. 75
अनुष्टुप्
-------- यूथं वृन्दमात्रे स्यात् ।
13.1.5 · p. 75