All kośas › Rabhasakośa
रभसकोश Rabhasakośa
445 verses · text only, tagging comes next
नान्ताः · नत्रिकम्
असनं क्षेपणे क्लीबं पुंसि स्याज्जीवकद्रुमे ।पीठेभस्कन्धयोः क्लीबमासनं ना तु जीवके ॥ १४५ ॥
16.3.145 · p. 82
अनुष्टुप्
आस्थानं संसदास्थानी परिषत्पर्षदौ समे ।-------- उष्मा तापनिदाघयोः ॥ १४६ ॥
16.3.146 · p. 83
अनुष्टुप्metre not read in every line
पणोदमानदण्डानां तुरीयांशेऽपि काकिनी ।कौपीनं स्यादकार्ये च चीरगुह्यप्रदेशयोः ॥ १४७ ॥
16.3.147 · p. 83
अनुष्टुप्
प्रकाशोत्साहयोर्हिंसा सूचनेऽपि च गन्धनम् ।तलिनं विरले स्तोके त्रिष्वच्छेऽपि लवेऽपि च ॥ १४८ ॥
16.3.148 · p. 83
अनुष्टुप्
अधः स्थानेऽपि तलिनम् -------- ।दुर्दिनं जलदध्वान्तम् -------- ॥ १४९ ॥
16.3.149 · p. 84
metre not recognised
-------- धन्वा धन्व च कार्मुकम् ।दर्शप्रतिपदोः सन्धौ ग्रन्थिप्रस्तावयोरपि ॥ १५० ॥
16.3.150 · p. 84
अनुष्टुप्metre not read in every line
पर्व क्लीबं महे चैव विषुवत्प्रभृतिष्वपि ।सहस्रदंष्ट्रसंज्ञे तु पाठीनो द्वे झषान्तरे ॥ १५१ ॥
16.3.151 · p. 84
अनुष्टुप्
गुल्गुलौ तु नृलिङ्गः स्यात् -------- ।पिशुनः कपिवक्त्रेऽपि पृक्कायां पिशुना मता ॥ १५२ ॥
16.3.152 · p. 84
अनुष्टुप्metre not read in every line
प्रधानं स्यान्महामात्रे प्रकृतौ परमात्मनि ।प्रज्ञायां च प्रधानं स्यादेकत्वे चोत्तमेऽपि च ॥ १५३ ॥
16.3.153 · p. 84
अनुष्टुप्
प्रसूनो वाच्यवज्जाते क्लीबं तु फलपुष्पयोः ।भट्टिनी द्विजभार्यायां नाट्योक्त्यां राजयोषिति ॥ १५४ ॥
16.3.154 · p. 84
अनुष्टुप्
रसनं तु ध्वनौ स्वादे रसज्ञारास्नयोः स्त्रियाम् ।प्रभौ भूमिपतौ राजा क्षत्रिये रजनीपतौ ॥ १५५ ॥
16.3.155 · p. 85
अनुष्टुप्
लपनं वदनं तुण्डमाननं नासिका नसा ।वमनस्तु पुमान् वृक्षे विज्ञेयोऽङ्कोथ(र)संज्ञके ॥ १५६ ॥
16.3.156 · p. 85
अनुष्टुप्
छर्दनाऽर्दनयोस्तु स्यात् क्ली(बे)------ ।-------- वर्धनं वृद्धिकृत्तयोः ॥ १५७ ॥
16.3.157 · p. 85
metre not recognised
प्रमाणदेहयोर्वर्ष्म स्यादाकारेऽतिसुन्दरे ।वृजिनं कल्मषे क्लीबं केशे ना कुटिले त्रिषु ॥ १५८ ॥
16.3.158 · p. 85
अनुष्टुप्
व्युत्थानं स्वातन्त्र्यकृत्ये विरोधाचरणेऽपि च ।संस्थानमाकृतौ मृत्यौ संनिवेशे चतुष्पथे ॥ १५९ ॥
16.3.159 · p. 86
अनुष्टुप्
समानं सत्समैकेषु त्रिषु ना नाभिमारुते ।-------- -- साधनमिन्द्रिये ॥ १६० ॥
16.3.160 · p. 86
अनुष्टुप्metre not read in every line
स्यन्दनं तु स्रुतौ क्लीबं शताङ्गे तिनिशे नरि ।अग्निर्वैश्वानरेऽपि स्याच्चित्रकाख्यौषधौ पुमान् ॥ १६१ ॥
16.3.161 · p. 86
अनुष्टुप्
त्वचि काये तनुः स्त्री स्यात् त्रिष्वल्पे विरले कृशे ।द्युम्नं धने बले च - -------- ॥ १६२ ॥
16.3.162 · p. 87
अनुष्टुप्metre not read in every line
भूम्नि भृष्ट्ययवे धानाः स्त्रियामभिनवोद्भिदि ।क्लीबं स्यात् कानने नीरे निवासे निलये वनम् ॥ १६३ ॥
16.3.163 · p. 87
अनुष्टुप्
---- स्तनकुचौ धारणोऽग्रेऽस्य चूचुकम् ।---- स्योनस्यूतप्रसेवकाः ॥ १६४ ॥
16.3.164 · p. 87
metre not recognised
हनुर्हट्टविलासिन्यां कपोलावयवे स्त्रियाम् ।
16.3.21 · p. 87