All kośas › Rabhasakośa
रभसकोश Rabhasakośa
445 verses · text only, tagging comes next
तान्ताः · तचतुष्कम्
हानावपचितिः स्त्री स्यान्निष्कृतावर्चने व्यये ।अभिनीतं संस्कृते च न्याय्ये चामर्षिणि त्रिषु ॥ ८७ ॥
12.2.87 · p. 63
अनुष्टुप्
अभ्यमितोऽपटुरातुरः -------- ।अवसानं गते ज्ञाते ऋद्धेऽप्यवसितं त्रिषु ॥ ८८ ॥
12.2.88 · p. 63
अनुष्टुप्metre not read in every line
उपाहितोऽनलोत्पाते पुमानारोपिते त्रिषु ।कालवृन्ता कामदूती पाटलिर्मधुदूतिका ॥ ८९ ॥
12.2.89 · p. 64
अनुष्टुप्
छायासुतो नीलवासाः शनिसौरिशनैश्चराः ।टङ्कपतिर्नैष्किको रजताध्यक्षः ---- ॥ ९० ॥
12.2.90 · p. 64
metre not recognised
पारावतश्च छेद्यश्च कपोतो रक्तलोचनः ।पारापतः कलरवः पत्री श्येनः शशादनः ॥ ९१ ॥
12.2.91 · p. 65
अनुष्टुप्
पुरोहितः पुरोधाः स्याद्द्वाःस्थो वेत्रलताधरः ।द्वारपो द्वाःस्थितादर्शी अध्यक्षाऽधिकृतौ समौ ॥ ९२ ॥
12.2.92 · p. 65
अनुष्टुप्
समाहिते च न्यस्ते च प्राप्ते प्रणिहितं त्रिषु ।रमापतिर्विघ्नराजे गोविन्दे राज्ञि मारुते ॥ ९३ ॥
12.2.93 · p. 65
अनुष्टुप्
वानस्पत्येतरद्रौ स्याद्द्रुमात्रेऽपि वनस्पतिः ।वैद्यमाताऽटरूषकः सिंहास्यो वाजिदन्तकः ॥ ९४ ॥
12.2.94 · p. 66
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 ष (wrong syllable)
सरिद्विशेषे सरिति गोवाग्देवतयोः स्त्रियाम् ।सरस्वती स्याद्वचसि स्त्रीरत्ने रसिके त्रिषु ॥ ९५ ॥
12.2.95 · p. 66
अनुष्टुप्