All kośas › Rabhasakośa
रभसकोश Rabhasakośa
445 verses · text only, tagging comes next
यान्ताः · यद्विकम्
क्लीबं शिलाजतुन्यर्थ्यो बुधे न्याय्येऽभिधेयवत् ।स्त्रियां प्रकोष्ठे हर्म्यादेः काञ्च्यां मध्येभबन्धयोः ॥ २१९ ॥
22.3.219 · p. 105
अनुष्टुप्
कक्ष्या बृहतिकायां च काद्रवेयोऽहिरङ्गयोः ।वाद्यान्तरे पानपात्रे कांस्यकंसे च तैजसे ॥ २२० ॥
22.3.220 · p. 105
अनुष्टुप्
अष्टद्रोण्यां कीकसे च कुल्यमामिषसूर्पयोः ।नद्यां पयःप्रणाल्यां स्त्री वाच्यलिङ्गं कुलोद्भवे ॥ २२१ ॥
22.3.221 · p. 106
अनुष्टुप्
कृत्यो विद्विषि कार्ये च कृत्या क्रियादिवौकसोः ।रहस्योपस्थयोर्गुह्यं गुह्यः कमठदम्भयोः ॥ २२२ ॥
22.3.222 · p. 106
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क्रि (wrong syllable)
नवोढाज्ञातिभृत्येषु वत्सले च वरस्य च ।जनके जननीये ना जन्यं निर्वादयुद्धयोः ॥ २२३ ॥
22.3.223 · p. 106
अनुष्टुप्
-------- जित्या हलिरुभे स्त्रियाम् ।तिष्यो नक्षत्रभेदे स्यात् कलौ धात्र्यां च योषिति ॥ २२४ ॥
22.3.224 · p. 106
अनुष्टुप्metre not read in every line
द्रव्यं स्यात्पित्तले वित्ते पृथिव्यादौ विलेपने ।क्लीबे च भेषजे भव्ये द्रुविकारे तु वाच्यवत् ॥ २२५ ॥
22.3.225 · p. 107
अनुष्टुप्
प्रायश्चानशने मृत्यौ प्रायो बाहुल्यतुल्ययोः ।न्याय्याऽवल्गनयोर्मध्यमन्तरे चाधमे त्रिषु ॥ २२६ ॥
22.3.226 · p. 107
अनुष्टुप्
-------- रूप्यः स्यात् सुन्दरे त्रिषु ।आहतस्वर्नरजते क्लीबं -------- ॥ २२७ ॥
22.3.227 · p. 107
metre not recognised
प्रधानधातौ सामर्थ्ये वीर्यं तेजःप्रभावयोः ।शल्यं श्वाविच्छलाका स्याच्छरा मदनशारिका ॥ २२८ ॥
22.3.228 · p. 107
अनुष्टुप्
क्ष्वेडाशङ्कुशरे शल्यं ना श्वाविन्मदनद्रुमे ।सत्यं कृते च शपथे तथ्ये च त्रिषु तद्वति ॥ २२९ ॥
22.3.229 · p. 108
अनुष्टुप्
-------- सौम्या मृगशिराः स्त्रियाम् ।
22.3.12 · p. 108