All kośas › Rabhasakośa
रभसकोश Rabhasakośa
445 verses · text only, tagging comes next
रान्ताः · रचतुष्कम्
औडुम्बरं भवेत्ताम्रे फलादौ यज्ञशाखिनः ।दुरोदरं द्यूतभेदे द्यूतकृत्पणयोः पुमान् ॥ २३१ ॥
23.2.231 · p. 108
अनुष्टुप्
धाराधरो वारिधरः -------- ।धृतराष्ट्रः सुराज्ञि स्यात् पक्षिक्षत्रियभेदयोः ॥ २३२ ॥
23.2.232 · p. 108
अनुष्टुप्metre not read in every line
नगाधारा रत्नगर्भाऽब्धिद्वीपाऽम्बरमेखला ।पयोधरः कोशकारे नारिकेले स्तनेऽपि च ॥ २३३ ॥
23.2.233 · p. 109
अनुष्टुप्
कशेरुमेघयोः पुंसि -------- ।भवेत् परिकरः सङ्घे पर्यङ्कपरिवारयोः ॥ २३४ ॥
23.2.234 · p. 109
अनुष्टुप्metre not read in every line
प्रगाढत्रिकाबन्धे समारम्भविवेकयोः ।परिवारः परिजने खड्गकोशे परिच्छदे ॥ २३५ ॥
23.2.235 · p. 109
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
व्रणशुद्धौ मन्त्रभेदे चमूपृष्ठे च कङ्कणे ।पुंसि प्रतिसरो न स्त्री आरक्षकरसूत्रयोः ॥ २३६ ॥
23.2.236 · p. 109
अनुष्टुप्
त्रिलिङ्गस्तु नियोज्येऽपि -------- ।भूर्जे तु भूर्जपत्रं स्यान्मृदुत्वक्पत्रपुष्पकः ॥ २३७ ॥
23.2.237 · p. 109
अनुष्टुप्metre not read in every line
रेणुसारश्चन्द्रसंज्ञः -------- ।विद्याधरः कामरूपी खेचरः सत्ययौवनः ॥ २३८ ॥
23.2.238 · p. 110
metre not recognised