All kośas › Rabhasakośa
रभसकोश Rabhasakośa
445 verses · text only, tagging comes next
टान्ताः · टद्विकम्
स्त्री कटुः कटुरोहिण्यां क्लीबेऽकार्ये पुमान् रसे ॥ ५९ ॥
7.2.59 · p. 50
त्रिषु तद्वत्सुगन्ध्योश्च मत्सरेऽपि खरेऽपि च ।खटः श्लेष्मण्यन्धकूपे प्रहारान्तरटङ्कयोः ॥ ६० ॥
7.2.60 · p. 50
अनुष्टुप्
घोटसैन्धवगन्धर्वा हयवाजितुरङ्गमाः ।पटोऽस्त्री कर्पटः शाटः सिचयप्रोतलक्तकाः ॥ ६१ ॥
7.2.61 · p. 50
अनुष्टुप्
पटः प्रियालवृक्षे ना सूचेले पुंनपुंसकम् ।पट्टी ललाटभूषायां पट्टी लाक्षाप्रसादने ॥ ६२ ॥
7.2.62 · p. 51
अनुष्टुप्
यष्टिर्दण्डे हारभेदे -------- ।नियमादिफले व्युष्टिः समृद्धावपि च स्त्रियाम् ॥ ६३ ॥
7.2.63 · p. 51
अनुष्टुप्metre not read in every line