कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Rabhasakośa

रभसकोश Rabhasakośa

445 verses · text only, tagging comes next

यान्ताः · यत्रिकम्

कृच्छ्रातिक्रमदण्डेष्वत्ययो दोषविनाशयोः ॥ २०४ ॥
22.2.204 · p. 101
अवद्यमपशब्दे च गर्ह्ये च ----- ।मन्त्रव्याख्याकृदाचार्य आदेष्टा त्वध्वरे व्रती ॥ २०५ ॥
22.2.205 · p. 102
अनुष्टुप्metre not read in every line
यष्टा च यजमानश्च याजको देवचारकः ।दीक्षितः सोमपिती च -------- ॥ २०६ ॥
22.2.206 · p. 102
अनुष्टुप्metre not read in every line
रसभेदेऽङ्गरागे च निर्यासे च विलेपने ।कषायोऽस्त्री त्रिलिङ्गस्तु सुरभौ लोहितेऽपि च ॥ २०७ ॥
22.2.207 · p. 102
अनुष्टुप्
क्षत्रियस्तु विराट्क्षत्रराजन्यद्विजलिङ्गिनः ।गोसङ्ख्या यादवं क्लीबं गोमहिष्यादिकं तथा ॥ २०८ ॥
22.2.208 · p. 102
अनुष्टुप्
पादबन्धनमित्याहुः -------- ।----- नादेयं पुनः स्याद्भेद्यलिङ्गकम् ॥ २०९ ॥
22.2.209 · p. 102
metre not recognised
नदीभवादौ स्त्री तु स्यान्नादेयी जलवेतसे ।कर्कर्यां भूमिजम्ब्वां च महोदर्याख्यमुस्तके ॥ २१० ॥
22.2.210 · p. 103
अनुष्टुप्
कङ्गुष्ठेऽपि च नादेयी -------- ।निरयो नरकः पुंसि निरृतिः कालकण्ठिका ॥ २११ ॥
22.2.211 · p. 103
अनुष्टुप्metre not read in every line
ऐन्द्र्यलक्ष्म्यौ विष्टिराजूर्यातना तीव्रवेदना ।परिचर्यप्रार्थनयोः प्रणयः परिकीर्तितः ॥ २१२ ॥
22.2.212 · p. 103
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 प्रा (wrong syllable)
प्रत्ययः प्रथितत्वे च सनादिज्ञानयोरपि ।आचारे शपथे रन्ध्रे विश्वासाधीनहेतुषु ॥ २१३ ॥
22.2.213 · p. 103
अनुष्टुप्
बालेयो गर्दभे द्वे स्याद्दैत्ये चाथ खले त्रिषु ।मृदौ बलिहिते च - -------- ॥ २१४ ॥
22.2.214 · p. 103
अनुष्टुप्metre not read in every line
वातायुर्जिनयोनिश्च विश्वाची चारुलोचनः ।विषयो ना जनपदे देशगोचरयोरपि ॥ २१५ ॥
22.2.215 · p. 104
अनुष्टुप्
मुनिप्रभेदे मालूरे शाण्डिल्यः पावकान्तरे ।शैलेयं पलितं वृद्धं जीर्णं कालानुसार्यकम् ॥ २१६ ॥
22.2.216 · p. 104
अनुष्टुप्
श्वशुर्यौ देवरश्यालौ शयो ना हस्तसर्पयोः ।संस्थाने संनिवेशे च संस्त्यायो विस्तृतावपि ॥ २१७ ॥
22.2.217 · p. 104
अनुष्टुप्
संनयः समवाये स्यात् पृष्ठस्थायिबलेऽपि च ।स्वस्रीयो भागिनेयः स्यान्नप्ता नप्त्री च पौत्रिका ॥ २१८ ॥
22.2.218 · p. 104
अनुष्टुप्