कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Rabhasakośa

रभसकोश Rabhasakośa

445 verses · text only, tagging comes next

भान्ताः · भद्विकम्

कामुके वारनार्याश्च कुम्भः क्लीबं तु गुग्गुलौ ॥ १८४ ॥
20.3.184 · p. 94
पृश्निकायां च कुम्भी स्यात्पाटलौ कट्फलेऽपि च ।गर्भो भ्रूणेऽर्भके कुक्षौ सन्धौ पनसकण्टके ॥ १८५ ॥
20.3.185 · p. 95
अनुष्टुप्
मुख्यराट्क्षत्रयोर्नाभिः पुंसि प्राण्यङ्गके द्वयोः ।चक्रमध्ये प्रधाने च स्त्रियां कस्तूरिकामदे ॥ १८६ ॥
20.3.186 · p. 95
अनुष्टुप्
स्त्रियां सामाजिके गोष्ठ्यां द्यूतमन्दिरयोः सभा ।
20.3.4 · p. 96