All kośas › Rabhasakośa
रभसकोश Rabhasakośa
445 verses · text only, tagging comes next
गान्ताः · गद्विकम्
भगं स्मरात् गेहकूपौ शेफो मेहनलिङ्गलः ।शेफोमेढ्रशिश्नाः कामलतापि च ---- ॥ ४० ॥
3.2.40 · p. 43
metre not recognised
भगं श्रीयोनिवीर्येषु ज्ञाने वैराग्यधर्मयोः ।ऐश्वर्ययत्नमोक्षेच्छामाहात्म्यरविकीर्तिषु ॥ ४१ ॥
3.2.41 · p. 43
अनुष्टुप्
व्याजच्छलनिभे भङ्गिर्वैदर्भी तनुमीलिका ।-------- मद्गुः पानीयकारिका ॥ ४२ ॥
3.2.42 · p. 44
अनुष्टुप्metre not read in every line
लिङ्गः शिवे च लिङ्गं तु प्रमाणे चिह्नशेफयोः ।प्रभुत्वे पर्वतस्याङ्गे पशोरवयवेऽपि च ॥ ४३ ॥
3.2.43 · p. 44
अनुष्टुप्
क्रीडापानीययन्त्रे च शृङ्गं ना कूर्चशीर्षके ।मद्गुरस्य प्रियायां स्त्री विषायां ऋषभौषधे ॥ ४४ ॥
3.2.44 · p. 45
अनुष्टुप्