कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Rabhasakośa

रभसकोश Rabhasakośa

445 verses · text only, tagging comes next

भरत-रभस

हित्वा लज्जभये धृष्टा मदनेन मदेन च ।अभिसारयते कान्तं सा भवेदभिसारिका ॥ ३९० ॥
32.390 · p. 161
अनुष्टुप्
अधिक्षेपावमानादेः प्रयुक्तस्य परेण यत् ।प्राणात्ययेऽप्यसहनं तत् तेजस् समुदाहृतम् ॥ ३९१ ॥
32.391 · p. 161
अनुष्टुप्
आशीर्वचनमप्युक्ता स्तुतिर्यस्मात्प्रवर्तते ।देवद्विजनृपादीनां तस्मान्नान्दीति संज्ञिता ॥ ३९२ ॥
32.392 · p. 161
अनुष्टुप्
भिन्दिर्द्वादश तालं तु दशकुन्तोऽभिधीयते ।शृङ्गारवीरौ बीभत्सरौद्रहास्यभयानकाः ॥ ३९३ ॥
32.393 · p. 161
अनुष्टुप्
करुणाद्भुतशान्ताश्च ---ञ्च? रसा देश ।भारती सात्वती चैव कैशिक्यारभटी तथा ॥ ३९४ ॥
32.394 · p. 162
अनुष्टुप्metre not read in every line
चतस्रो वृत्तयश्चैता यासु नाट्यं प्रतिष्ठितम् ।वैष्णवं समपादं च वैशाखं मण्डलं तथा ॥ ३९५ ॥
32.395 · p. 162
अनुष्टुप्
प्रत्यालीढमथालीढं स्थानान्येतानि षड्नृणाम् ।
32.7 · p. 162