All kośas › Rabhasakośa
रभसकोश Rabhasakośa
445 verses · text only, tagging comes next
पान्ताः · पद्विकम्
कूपः कूपे नितम्बस्थे गर्तेऽन्धुगुणवृक्षयोः ।गोपो गोपालके गोष्ठाध्यक्षे पृथ्वीपतावपि ॥ १७३ ॥
17.4.173 · p. 90
अनुष्टुप्
ग्रामस्याधिपतौ पुंसि शारिवाख्यौषधौ स्त्रियाम् ।रूपं स्याच्छब्दशुक्लादिसौन्दर्याकारनाणके ॥ १७४ ॥
17.4.174 · p. 90
अनुष्टुप्