कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Rabhasakośa

रभसकोश Rabhasakośa

445 verses · text only, tagging comes next

भान्ताः · भत्रिकम्

ऋषभोऽग्र्ये कर्णरन्ध्रे देवेन्द्रे भूरुहेऽपि च ॥ १८० ॥
20.2.180 · p. 93
दैत्ये ना दुन्दुभिर्भेर्यां स्त्र्यक्षबिन्दुत्रिकद्वये ।शुद्धान्ते वलभीचन्द्रशाले सौधोर्ध्ववेश्मनि ॥ १८१ ॥
20.2.181 · p. 93
अनुष्टुप्
विस्रम्भः केलिकलहे विश्वासे प्रणये वधे ।अष्टापदे च करभे शरभः स्यान्मृगान्तरे ॥ १८२ ॥
20.2.182 · p. 93
अनुष्टुप्
सुरभिः सल्लकीमातृभिन्मुरागोषु तु स्त्रियाम् ।चम्पके च वसन्ते च तथा जातीफले पुमान् ॥ १८३ ॥
20.2.183 · p. 94
अनुष्टुप्
स्वर्णे गन्धोत्पले क्लीबं सुगन्धिकान्तयोस्त्रिषु ।
20.2.5 · p. 94