All kośas › Rabhasakośa
रभसकोश Rabhasakośa
445 verses · text only, tagging comes next
वान्ताः · वत्रिकम्
अपि गन्धर्वगान्धर्वदिव्यगायनगातवः ।गन्धर्वः पशुभेदेऽपि गायने खेचराश्वयोः ॥ ३२८ ॥
25.3.328 · p. 138
अनुष्टुप्
अन्तराभवसत्वे स्यात् -------- ।अविश्वासेऽपलापेऽपि निकृतावपि निह्नवः ॥ ३२९ ॥
25.3.329 · p. 139
अनुष्टुप्metre not read in every line
बडवा कुम्भदास्यश्वा स्त्रीविशेषो द्विजाङ्गना ।माधवः पुष्पदन्ते स्याद्विष्णौ गोपालदेवयोः ॥ ३३० ॥
25.3.330 · p. 139
अनुष्टुप्
स्यान्मार्कवो भृङ्गराजो भृङ्गराजः सुराजकः ।सचिवः सहायोऽमात्यः -------- ॥ ३३१ ॥
25.3.331 · p. 140
metre not recognised