All kośas › Rabhasakośa
रभसकोश Rabhasakośa
445 verses · text only, tagging comes next
सान्ताः · सत्रिकम्
अनः क्लीबं जले शोके मातृस्यन्दनयोरपि ।अभ्यासस्तु समीपे स्यात् पुमानभ्यसनेऽपि च ॥ ३६५ ॥
28.2.365 · p. 153
अनुष्टुप्
बलावष्टम्भयोरोजः क्लीबं दीप्तिप्रकाशयोः ।-------- तपो लोकान्तरेऽपि च ॥ ३६६ ॥
28.2.366 · p. 153
अनुष्टुप्metre not read in every line
चान्द्रायणादौ धर्मे च न स्त्री शिशिरमाघयोः ।तमः क्लीबं गुणे शोके सैंहिकेयान्धकारयोः ॥ ३६७ ॥
28.2.367 · p. 153
अनुष्टुप्
श्रावणे च बिसोर्णायां वर्षासु च पतद्ग्रहे ।नभो व्योम्नि नभा नासा घोणा द्वारोर्ध्वदारु च ॥ ३६८ ॥
28.2.368 · p. 154
अनुष्टुप्
श्रीवासे परमान्ने च पायसः पुंसि सम्मतः ।ब्रह्मासुर्विश्वकेतुः स्यात् -------- ॥ ३६९ ॥
28.2.369 · p. 154
अनुष्टुप्metre not read in every line
भ्रकुंसश्च भ्रुकुंसश्च भ्रूकुंसश्च भृकुंसकः ।-------- रजः स्यादार्तवे गुणे ॥ ३७० ॥
28.2.370 · p. 154
अनुष्टुप्metre not read in every line
रजः परागे रेणौ च रजवत् परिकीर्तितम् ।रहो निधुवनेऽपि स्याद्रहो गुह्ये नपुंसकम् ॥ ३७१ ॥
28.2.371 · p. 154
अनुष्टुप्
तृष्णातिरेके याच्ञायामौत्सुक्ये लालसा द्वयोः ।वरासिः स्यात्खड्गवरे वरासिः स्थूलशाटके ॥ ३७२ ॥
28.2.372 · p. 155
अनुष्टुप्
वर्चांसि रूपविड्भासः -------- ।हेमन्ते मार्गशीर्षे च सहः क्लीबं बलेऽपि च ॥ ३७३ ॥
28.2.373 · p. 155
अनुष्टुप्metre not read in every line