All kośas › Rabhasakośa
रभसकोश Rabhasakośa
445 verses · text only, tagging comes next
वान्ताः · वद्विकम्
ग्रीवाबन्धनरज्जौ तु ग्रैवं ग्रैवेयमित्यपि ।वसुयोगभिदोः शङ्कौ ध्रुव उत्तानपादजे ॥ ३३२ ॥
25.4.332 · p. 140
अनुष्टुप्
शश्वन्निश्चिततर्केषु क्लीबं त्रिषु च शाश्वते ।वटवृक्षे शरारौ ना गातिस्रुग्भेदयोर्ध्रुवा ॥ ३३३ ॥
25.4.333 · p. 140
अनुष्टुप्
लट्वा तु तूलिका ख्याता लट्वा द्यूतेऽपि दृश्यते ।करञ्जभित्फले लट्वाऽवद्यपक्षिप्रभेदयोः ॥ ३३४ ॥
25.4.334 · p. 140
अनुष्टुप्
-------- शिवा झटामलौषधौ ।अभयाऽऽमलकीगौरीफेरुसक्तुफलासु च ॥ ३३५ ॥
25.4.335 · p. 141
अनुष्टुप्metre not read in every line
शिवं भद्रे शिवः शम्भौ -------- ।
25.4.5 · p. 141