All kośas › Rabhasakośa
रभसकोश Rabhasakośa
445 verses · text only, tagging comes next
णान्ताः · णत्रिकम्
इन्द्राणी करणे स्त्रीणां सिन्दुवारेन्द्रयोषितोः ।ईक्षणं दर्शने दृष्टावीरिणं शून्यमूषरम् ॥ ७३ ॥
11.2.73 · p. 56
अनुष्टुप्
क्लीबं स्यान्मण्डने सूत्रे कङ्कणं करभूषणे ।कफोणिकूर्परौ तुल्यौ कफणिः स्त्री च दृश्यते ॥ ७४ ॥
11.2.74 · p. 57
अनुष्टुप्
पणोदमानदण्डानां तुरीयांशेऽपि काकिणी ।क्षरणक्षारणाक्रोशाः साभिशपाभिमैथुने ॥ ७५ ॥
11.2.75 · p. 58
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श (wrong syllable)
बौद्धोक्तमन्त्रभेदे च नाडिकायां च धारणी ।इयत्ताहेतुशास्त्रेषु प्रमाणं सत्यवादिनि ॥ ७६ ॥
11.2.76 · p. 58
अनुष्टुप्
मर्यादानित्ययोरेकतायामेव प्रमातरि ।मत्कुणस्तु पुमान् कालेऽप्यजातरदहस्तिनि ॥ ७७ ॥
11.2.77 · p. 58
अनुष्टुप्
निःश्मश्रुपुरुषेऽपि -- -------- ।रोहिणी कटुरोहिण्यां भभेदे लोहितागवोः ॥ ७८ ॥
11.2.78 · p. 58
अनुष्टुप्metre not read in every line
ज्योतिष्मत्यां च सारस्यां स्त्री क्लीबे नामचिह्नयोः ।स्याद्यक्षे लक्ष्मणः पुंसि सौमित्रौ श्रीमति त्रिषु ॥ ७९ ॥
11.2.79 · p. 59
अनुष्टुप्
दुष्यन्तराजपत्न्यां तु लक्ष्मणाऽप्सरयोषिति ।आपणे पण्यवीथ्यां च पण्ये च विपणिः स्त्रियाम् ॥ ८० ॥
11.2.80 · p. 59
अनुष्टुप्
स्त्रीपुंसयोरृक्षभेदे श्रवणं श्रुतिकर्णयोः ।श्रीपर्णी कुम्भिगम्भार्योः क्लीबे पद्मानिमन्थयोः ॥ ८१ ॥
11.2.81 · p. 60
अनुष्टुप्
-------- सरणिः श्रेणिवर्त्मनोः ।हरेणुः स्त्री रेणुकायां स तु पुंसि सतीनके ॥ ८२ ॥
11.2.82 · p. 61
metre not recognised