कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Rabhasakośa

रभसकोश Rabhasakośa

445 verses · text only, tagging comes next

कान्ताः · कद्विकम्

ओकस्त्वाश्रयमात्रे च मन्दिरे च नपुंसकम् ॥ २९ ॥
1.4.29 · p. 40
त्रिषु पापाशये कल्कोऽस्त्री विट्किट्टेऽघदम्भयोः ।किष्कुर्हस्ते वितस्तौ च प्रकोष्ठे पुंनपुंसकम् ॥ ३० ॥
1.4.30 · p. 40
अनुष्टुप्
चेकस्त्रिषु विदग्धेषु गृहासक्तमृगाण्डजे ।त्रिका कूपस्य नेमौ स्त्री पृष्ठवंशाधरे त्रिकम् ॥ ३१ ॥
1.4.31 · p. 40
अनुष्टुप्
शोणितान्त्रे स्त्रियां बुक्का बुक्कं सुरसमद्वयोः ।मोको वराहे निर्बन्धे बन्धे वारिविहारयोः ॥ ३२ ॥
1.4.32 · p. 41
अनुष्टुप्
राका नवरजोनार्यां पूर्णचन्द्रतिथावपि ।वृकः स्यात् कृत्रिमेऽनेकधूपेऽपि सरलद्रवे ॥ ३३ ॥
1.4.33 · p. 41
अनुष्टुप्
घट्टादिदेये शुल्कोऽस्त्री यौतकाख्यधनेऽपि च ।श्लक्ष्णे सूक्ष्मे च तीक्ष्णाग्रे शुकोऽनुग्रहशुङ्गयोः ॥ ३४ ॥
1.4.34 · p. 41
अनुष्टुप्