All kośas › Rabhasakośa
रभसकोश Rabhasakośa
445 verses · text only, tagging comes next
कान्ताः · कत्रिकम्
अंशुकं शुक्लवस्त्रे स्याद्वस्त्रमात्रोत्तरीययोः ॥ ८ ॥
1.3.8 · p. 34
त्रिष्वासन्नेऽन्तिका चुल्लिर्नाट्योक्तावग्रजा स्वसा ।अलीकं तु मृषार्थे स्याल्ललाटे पुंनपुंसकम् ॥ ९ ॥
1.3.9 · p. 34
अनुष्टुप्
अशोका कटुरोहिण्यामशोको वञ्जुलद्रुमे ।(आह्निक) ---- ---- भेद्यवत् पुनः ॥ १० ॥
1.3.10 · p. 34
अनुष्टुप्metre not read in every line
अहर्निर्वृत्तकादौ स्यात् क्ली तु नित्यक्रियाशने ।करञ्जभेदे कटका मर्कट्यङ्गारवल्लिका ॥ ११ ॥
1.3.11 · p. 34
अनुष्टुप्
कनकं पुरटे चुल्ले गैरिके नागकेसरे ।(करक) द्वयोस्तु पक्षिभेदे स्यात् ---- ॥ १२ ॥
1.3.12 · p. 34
अनुष्टुप्metre not read in every line
कविका तु खलीनोऽस्त्री कविकं कर्षणीत्यपि ।धूसरीयोगिनीभेदोमानवाब्देषु कालिका ॥ १३ ॥
1.3.13 · p. 35
अनुष्टुप्
क्रमदेयवस्तुमूल्ये कार्ष्ण्ये काक्यां घनेषु च ।श्लोकैरनेकैः संबन्धे पटोले च नपुंसकम् ॥ १४ ॥
1.3.14 · p. 35
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 य (wrong syllable)
कुलश्रेष्ठिनि काकेन्दौ वल्मीके कुलकः पुमान् ।खुल्लकस्त्रिषु नीचेऽल्पे गैरिकं धातुरागयोः ॥ १५ ॥
1.3.15 · p. 35
अनुष्टुप्
दैवज्ञे पुंसि यूथ्यां च वेश्यायां गणिका स्त्रियाम् ।कलोक्तौ मलिने धूलौ स्नेहपात्रे च गुण्डकः ॥ १६ ॥
1.3.16 · p. 36
अनुष्टुप्
नग्ने वन्दिनि गोरङ्कुः -------- ।जारजे विधवापुत्रे गोलको मणिके गुले ॥ १७ ॥
1.3.17 · p. 36
अनुष्टुप्metre not read in every line
रामठे जतुकं चर्मपत्राजतुकृतोः स्त्रियाम् ।द्रुभेदे हयभेदे च तिलकस्तिलकालके ॥ १८ ॥
1.3.18 · p. 36
अनुष्टुप्
तप्तसौवर्चलक्लोम्नोः क्लीबमस्त्री तु चित्रके ।अलंकारे यवान्यां च दीपको लोचमस्तके ॥ १९ ॥
1.3.19 · p. 36
अनुष्टुप्
धान्याकं धान्यकं धान्यं कुस्तुम्बुरु धनीयकम् ।स्त्री नग्निका कोट्टवी स्यात् क्षपणी च प्रवह्लिका ॥ २० ॥
1.3.20 · p. 37
अनुष्टुप्
नीचीकं तु शीरोदेशे -------- ।पत्रिकं पत्रिका पत्री पत्रा स्यात्तीक्ष्णपत्रिका ॥ २१ ॥
1.3.21 · p. 37
अनुष्टुप्metre not read in every line
(पुलक)
कृमिप्रदे गल्वर्कमणिदोषप्रभेदयोः ।रोमाञ्चे हरिताले च रत्नभेदेऽपि --- ॥ २२ ॥
1.3.22 · p. 37
metre not recognised
प्रियङ्गौ प्रियको नीपे पितशले मृगान्तरे ।------- समौ मड्डुकमर्दलौ ॥ २३ ॥
1.3.23 · p. 37
metre not recognised
स्यान्मातृका कृत्रिमा या धातृका कारणे स्वरे ।युक्तं युगले युक्ते यौतके संशयेऽपि च ॥ २४ ॥
1.3.24 · p. 38
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 1 यु (syllables merged)
पुंसि सौर्वचले क्लीबं रुचको मातुलुङ्गके ।विलेपने चन्दने च वर्णकं पुंनपुंसकम् ॥ २५ ॥
1.3.25 · p. 38
अनुष्टुप्
पक्षिभेदे नरि क्लीबं खुरेऽप्यश्वस्य वर्तकम् ।वाह्लीकं वाह्लिकं धीरहिङ्गुनोर्नाऽश्वदेशयोः ॥ २६ ॥
1.3.26 · p. 38
अनुष्टुप्
कपोतपालिकायां स्याद्विटङ्कः सदनेऽस्त्रियाम् ।शम्बूकः शम्बुको ज्ञेयः शम्बूकापि च पण्डितैः ॥ २७ ॥
1.3.27 · p. 39
अनुष्टुप्
श्वाविद्द्रुभेदौ शल्लक्यौ शङ्का त्रासवितर्कयोः ।नालिकेरस्य सस्याभमणौ खड्गे च सस्यकः ॥ २८ ॥
1.3.28 · p. 39
अनुष्टुप्
सेवकाः किंकरा भृत्याः -------- ।
1.3.22 · p. 39